________________ 118 सिद्धहैमबृहत्प्रक्रिया. [कारक कृतं चैत्रस्य, धिक् कृतं मैत्रस्येत्यत्र च हाधिकशब्दाभ्यां कृतशब्दे न्यग्भूतत्वात् न चैत्रादेः साक्षायोगः, किंतहि तद्विशिष्टेन कृतशब्देन / बहुवचनादन्येनापि युक्ताद भवति / न देवदतं प्रतिभाति किंचित् / बुभुक्षितं न प्रतिभाति किंचित् / वृणीष्व भद्रे प्रतिभाति यत्त्वाम् / योक्षपादमूर्वि न्यायः प्रत्यभाद् वदतां वरम् / धातुसंबद्धोऽत्र प्रतिस्तेन ' भागिनि च प्रतिपर्यनुभिः' इति न सिद्धयति / गौणादिति किम् / अन्तरा गार्हपत्यमावहनीयं च वेदिः। अत्र प्रधानाद्वेदिशब्दान्न भवति / 721 द्वित्वेऽधोऽध्युपरिभिः // 22 // 34 // एभियुक्ताद् गौणानाम्न एषामेव द्वित्वे सति द्वितीया स्यात् / षष्ठयपवादः। बहुवचनमेकद्विबहाविति यथासंख्यनिवृत्त्यर्थम् / अधोऽधो ग्रामं ग्रामाः। अध्यधि ग्रामं क्षेत्राणि / उपर्युपरिग्रामं ग्रामाः / द्वित्व इति किम् / अधःप्रासादस्य / हम्यस्योपरि प्रासादः। असामीप्याच द्वित्वं न भवति।। __ 522 सर्वोनयाभिपरिणा तसा // 22 // 36 // सर्वादिभिस्तसन्तैर्युक्ताद् गौणानाम्नो द्वितीया स्यात / षष्ठयपवादः। सर्वतो ग्राम वनानि / उभयतो ग्राम वनानि / अभितो ग्रामं क्षेत्राणि / परितो ग्रामं क्षेत्राणि। 523 लक्षणवीप्स्येत्थंभूतेष्वभिना ! // 22 // 36 // लक्ष्यते दर्थते येन तल्लक्षणं-चिह्नम् / अवयवशः समुदायस्य क्रियादिना साकल्येन प्राप्तीच्छा वीप्सा, तत्कर्म वीप्स्यम् / केनचित् विवक्षितेन विशेषेण भाव इत्थंभावस्तद्विपय इत्थंभूतः। एष्वर्थेषु वर्तमानादभिना युक्ताद् गौणानाम्नो द्वितीया स्यात् / वृक्षमभि विद्योतते विद्युत् / अत्र वृक्षो लक्षणम् / विद्योतमाना विद्युल्लक्ष्यम् / अनयोश्च लक्ष्यलक्षणभावः संबंधोऽभिना द्योत्यते / वृक्षं वृक्षमभि सेकः / एकैकस्य वृक्षस्य सेक इत्यर्थः। साधुदेवदत्तो मातरमभि / मातृविषये साधुत्वे प्रकार प्राप्त इत्यर्थः। लक्षणादिष्विति किम् / यदत्रममाभि स्यात् तदीयताम् / अत्राभिना भागसंबंधो घोत्यते / योऽत्र मम भागः स्यादित्यर्थः। अत्रापि बहुवचनं यथासंख्याभावार्थम् / एवमुत्तरत्र। 524 भागिनि च प्रतिपर्यनुमिः // 2 // 2 // 37 // स्वीक्रियमाणोऽशो भागः तत्स्वामी भागी, तत्र लक्षणादिषु चार्थेषु वर्तमानात् प्रतिपर्यनुभिर्युक्तात् गौणामानो द्वितीया स्यात् / यदत्र मां प्रति मां परि मामनु स्यात् / योऽत्र मम भाग