________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. अकर्म च-यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञापि वा भवतीत्यर्थः। मासमास्ते। मास आस्यते / योजनमास्ते / योजन आस्यते / गोदोहमास्ते। गोदोह आस्यते। कुरून् आस्ते। कुरव आस्यन्ते। अविवक्षितकर्माणः सकर्मका अपि अकर्मकाः। मासं पचति। मासः पच्यते / क्रोशमधीते / क्रोशोऽधीयते। ओदनपाकं पठति / ओदनपाकः पठ्यते / कुरून् पठति, कुरवः पठ्यन्ते / पक्षे रात्रौ सुप्यते / रात्रौ नृत्तं च द्रक्ष्यसि। क्रोशे सुप्यते / गोदोहे आस्ते / ओदनपाके स्वपिति / पञ्चालेषु वसति / ग्रामे वासः। कालाध्वभावदेशमिति किम् / पासादे आस्ते / शय्यायां शेते / अकर्म चेति किम् / मासमास्यते / क्रोशे मुप्यते / गोदोहमासितः। इदं गोदोहमासितम् / अद्यर्थाचाधारे इति भावे कर्तर्याधारे च यथायथमात्मनेपदक्तौ सिद्धौ / अकर्मणामिति किम् / रात्रावुद्देशोऽधीतः। अहन्यध्ययनमधीतम् / कथं पचत्योदनं मासम्, भक्षयति धानाः क्रोशम् , पिबति पयो गोदोहम् , भजति सुखं कृरून् ? / द्विकर्मकत्वात् कर्तुाप्यं कर्मेत्येव भविष्यति। अन्ये तु सकर्मकाणामकर्मकाणां च प्रयोगे कालाध्वभावानामत्यन्तसंयोगे सति नित्यं कर्मत्वमिच्छन्ति। मासमास्ते। दिवसं पचत्योदनम् / क्रोशं स्वपिति। क्रोशं पठति वेदम् / गोदोहमास्ते। गोदोहं पचत्योदनम् / अनेन कर्मसंज्ञायां कर्मणि त्यादयोऽपि / आस्यते मास इत्यादि / कालाध्वनो ाप्ताविति च गुणद्रव्ययोगे एवेच्छन्ति न तु क्रियायोगे / अत्यन्तसंयोगादन्यत्र तु रात्रौ शेते, अध्वनि स्थित इत्यादावाधारत्वमेव / 520 गौणात् समयानिकषाहाधिगन्तरान्तरेणातियेनतेनैर्द्वितीया // 2 // 2 // 33 // आख्यातपदेनासमानाधिकरणं गौणम् / गौणान्नाम्नः समयादिभिनिपातैर्युक्तादेकद्विबहौ यथासंख्यं अमौशस्रूपा द्वितीया स्यात् / षष्ठयपवादः। समया पर्वतं नदी / निकषा पर्वतं वनम् / हा देवदत्तं वर्धते व्याधिः / धिग् जाल्मम् / अन्तरा निषधं नीलं च विदेहाः / अन्तरेण गंधमादनं माल्यवन्तं चोत्तराः कुरवः। अतिवृद्धं कुरून् महद् बलम् / कुर्वतिक्रमेण वृद्धमित्यर्थः। येन पश्चिमां गतः तेन पश्चिमां नीतः। अन्तरान्तरेण शब्दौ साहचर्यान्निपातौ गृह्यते / तथान्तराशब्दो मध्यमाधेयप्रदानमाचष्टे, अन्तरेणशब्दस्तच्च विनार्थ च। तेनेह न भवति। राजधान्या अन्तरायां पुरि वसति / किंते केशवार्जुनयोरन्तरेण गतेनेति / हा तात, धिग् जाल्म, हा सुभ्र इत्यादावामन्यतया विवक्षा न हादियुक्तत्वेनेति न भवति / हा