________________ सिद्धहैमबृहत्प्रक्रिया. [ कारक आत्मनेपदादिभिश्चोक्तयोः कर्मकरणयोः द्वितीया षष्ठीतृतीया यथायोगं न भवन्ति / करणं वेत्येव सिद्धे चकारः संज्ञाद्वयसमावेशार्थः। तेनार्दैवयते मैत्रश्चैत्रेणेत्यत्र करणत्वात् तृतीया भवति / कर्मत्वाच्च गत्यादिसूत्रेण नित्याकर्मकलक्षणमणिकर्तुः कर्मत्वम्, देवयतेश्चाणिगि प्राणीत्यादिना अकर्मकलक्षणं परस्मैपदं न भवति / अथाक्षान् दीव्यतीत्यत्र सत्यपि संज्ञाद्वयसमावेशे परत्वात् करणत्वनिमित्तया तृतीययैव भवितव्यम् / नैवम् / स्पर्धे हि परः समानविषययोश्च स्पर्धः। न च द्वितीयातृतीययोः प्रतिनियतकर्मकरणशक्त्यभिधायिन्योः समानविषयत्वमस्तीति द्वितीयाऽपि भवत्येव / प्रतिकार्य संज्ञा भिद्यन्ते इति वा दर्शनेऽनवकाशत्वात् संज्ञाद्वयस्य विभक्त्योः पर्यायेण प्रवृत्तिरविरुद्धा / दिव इत्येव / दात्रेण लुनाति / करणमिति किम् / गृहे दीव्यति / . 516 अधेः शीस्थास आधारः // 2 / 2 / 20 // अधेः संवद्धानां शीङ्स्था आस् इत्येतेषां य आधारस्तकारकं कर्मसंज्ञं स्यात् / ग्राममधिशेते / ग्राममधितिष्ठति / ग्राममध्यास्ते / अधेरिति किम् / शयने शेते / गृहे तिष्ठति / कटे आस्ते / आधार इति किम् / ग्रामोऽधिशयितो मैत्रेण / पौरुषेणाधितिष्ठति / कर्तृकरणे न भवतः। अकर्मका अपि हि धातवः सोपसर्गाः सकर्मका भवन्तीति सिद्धं सकर्मकत्वम् / आधारवाधनार्थ तु वचनम् / 517 उपान्वध्यावसः // 2 / 21 // उप अनु अधि आभिविशिष्टस्य वसतेथ आधारः स कर्मसंज्ञः स्यात् / ग्राममुपवसति / पर्वतमनुवसति / पुरमधिवसति / आवसथमावसति / अन्वादिसाहचर्यादुपस्य स्थानार्थकस्यैव ग्रहणं, नाशननिवृत्त्यर्थस्य / तेन ग्रामे उपवसति-भोजननिवृत्ति करोतीत्यत्र न भवति / ' अदाधनदायोरनदादेरेव ग्रहणमिति' वस्तेन भवति / 518 वाभिनिविशः // 2 / 2 / 22 // अभिनिनोपसर्गसमुदायेन विशिष्टस्य विशेराधारः कर्मसंज्ञो वा स्यात् / ग्राममभिनिविशते / व्यवस्थितविभाषेयं, तेन कचित् कर्मसंज्ञैव, कचिदाधारसंज्ञैव भवति / कल्याणेऽभिनिविशते / / 519 कालावभावं देशं वाऽकर्म चाकर्मणाम् // 2 / 2 / 23 // कालो मुहूर्तादिः। अध्वा गन्तव्यं क्षेत्रं क्रोशादि / भावः क्रिया गोदोहादिः। देशो जनपदग्रामनदीपर्वतादिः। अकर्मकाणां धातूनां प्रयोगे कालादिराधारः कर्मसंज्ञो वा स्यात्