________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 511 निप्रेभ्यो नः // 2 / 2 / 15 // निपाभ्यां परस्य हिंसायां वर्तमानस्य हन्तेाप्यं वा कर्म स्यात् / बहुवचनं समस्तव्यस्तविपर्यस्तसंग्रहार्थम् / चौरस्य चौरं वा निहन्ति, निहन्ति, प्रहन्ति, प्रणिहन्ति / निप्रेभ्य इति किम् / चौरं हन्ति। हिंसायामित्येव / रागादीन् निहन्ति / 512 विनिमेयद्यूतपणं पण यवहोः // 2 / 2 / 16 // विनिमयः क्रेयविक्रेयोऽर्थः / द्यूतपणो द्यूतजेयम् / पणतेर्व्यवपूर्वस्य च हरतेया॑प्तौ विनिमेयद्यूतपणौ वा कर्मसंज्ञौ स्याताम् / शतस्य पणायति शतं पणायति। सहस्रस्य सहस्रं वा पणायति। क्रयविक्रये द्यूतपणत्वे वा तद्विनियुङ्क्ते इत्यर्थः / एवं दशानां दश वा व्यवहरति / विनिमेयद्यूतपणमिति किम् / साधून पणायति-स्तौतीत्यर्थः / शलाका व्यवहरति 513 उपसर्गादिवः // 22 // 17 // उपसर्गात् परस्य दिवो व्याप्तौ विनिमेयद्यतपणौ कर्मसंज्ञो वा स्थाताम् / शतस्य शतं वा प्रदीव्यति / विनिमेयद्यूतपणमित्येव / शलाकां प्रति दीव्य ते, विगणयन्नपहरतीत्यर्थः / उपसर्गादि ते किम् / शतस्य दीव्यति। 514 न // 22 / 18 // विनिमेयद्यूतपणौ दिवो व्याप्यौ कर्मसंज्ञौ न स्याताम्। उपसर्गपूर्वस्य विकल्पविधानादनुपसर्गस्यायं निषेधः / शतस्य दीव्यति / निषिद्धे च कर्मणि षष्ठयेव भवति / शतस्य दीव्यते, शतस्य द्यूतम् , शतस्य देवितव्यम् / शतस्य सुदेवमित्यादौ भावे आत्मनेपदक्तकृत्यखलः सिद्धाः / शतस्य द्यूतो मैत्र इत्यत्र च कर्तरि क्तः / विनिमेयद्यूतपणमित्येव / जिनं दीव्यति स्तोतीत्यर्थः / भूमि दीव्यति-संधिना विजिगीषते इत्यर्थः। संधिपणोऽत्र न द्यूतपणः / द्यूतं दीव्यति, अक्षान् दीव्यति, अत्र क्रिया तत्साधनं च व्याप्यं न तु पणः / 515 करणं च // 2 / 2 / 19 // दीव्यतेः करणं कर्मसंज्ञं चकारात् करणसंज्ञ च स्यात कर्मकरणसंज्ञे युगपद् भजतीत्यर्थः। अक्षान् दीव्यति / अक्षाणां देवनम् / अक्षा दीव्यन्ते / अक्षा देवितव्याः। अक्षाः सुदेवाः। अक्षदेवः। अक्षा उताश्चैत्रेण / एषु कर्मत्वे द्वितीयाषष्ठयात्मनेपदतव्यखलणक्तप्रत्ययास्तनिमित्ताः सिद्धाः। अक्षर्दीव्यति। अक्षैर्देवनम् / अझैभव्यते / अक्षर्देवितव्यम् / अक्षैः सुदेवं मैत्रेण / अझैतं चैत्रेण / अक्षा देवनाः। एषु करणत्वे तृतीयानटौ भावे आत्मनेपदादयश्च सिद्धाः /