SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 114 सिद्धहैमबृहत्मक्रिया. [ कारक ननु कर्माविवक्षायां पक्षे माषाणामश्नीयादित्यादिवत् शेषषष्ठी सिद्धैव तत् किमनेन?। सत्यम् / किंतु 'षष्टययत्नाच्छेषे' इति अयत्नजे शेषे षष्ठयाः समासो वक्ष्यते ततो मातुःस्मृतमित्यादौ समासो मा भूदित्यनेन प्रकारेण यत्नाच्छेपो विधीयते नियमार्थं च / तेनैषां धातूनां कर्मैव शेषत्वेन विवक्ष्यते न कारकान्तरं, तेन मात्रा स्मृतम् मनसा स्मृतमित्यादौ कर्तृकरणयोः शेषविवक्षाभावात् षष्ठी न भवति / व्याप्यमित्येव / कथासु स्मरति / गुणैः स्मरति / 508 कृगः प्रतियत्ने // 2 / 2 / 12 // पुनर्यत्नः प्रतियनः। सतो गुणाधानायापायपरिहाराय वा समीहा। तस्मिन् वर्तमानस्य करोतेयाप्यं कर्म वा स्यात् / एधोदकस्योपस्कुरुते / एधो दकमुपस्कुरुते / प्रतियत्न इति किम् / कटं करोति / व्याप्यमित्येव / एधो दकस्योपस्कुरुते बुद्धया / करणस्य मा भूत् / 509 रुजार्थस्याज्वरिसंतापेभीवे कर्तरि // 2 // 13 // रुजा पीडा / तदर्थस्य धातोर्चरिसंतापिवर्जितस्य व्याप्यं कर्मसंज्ञं वा स्यात् भावे कर्तरि-भावश्चेत रुजार्थस्य कर्ता भवति। चौरस्य रुजति, चौरं वा रुजति रोगः। चौरस्य चौरं वा आमयति रोगः। रुजार्थस्येति किम् / एति जीवन्तमानन्दः। ज्वरिसंतापिवर्जनं किम् / आयूनं ज्वरयति। अत्याशिनं संतापयति / कर्तरीति किम्। चत्रं रुजत्यत्यशने वातः। भाव इति किम् / मैत्रं रुजति श्लेष्मा / अत्र श्लेष्मा द्रव्यं न भावः। रोगो व्याधिरामयः शिरोऽतिरित्यादयो भावरूपाः कर्तारः / 510 जासनाटक्राथपिषो हिंसायाम् // 2 / / 14 // एषां हिंसायां वर्तमानानां व्याप्यं वा कर्म स्यात् / व्रगपिसजसबर्हण हिंसायाम् , जसण ताडने इति चुरादी गृह्यते, न जम्च् माक्षणे इति देवादिकस्तस्याहिंसार्थत्वात् / चौरस्योजासयति, चौरमुज्जासयति / चौरस्योज्जास्यते, चौर उज्जास्यते चैत्रेण / तथा नटण अवस्यन्दने इति, अयमपि चुरादिर्नतु गट नृत्ताविति भ्वादिः / चौरस्योनाटयति, चौरमुन्नाटयति / एवं क्राथिर्घटादिः। चौरस्योत्क्राथयति, चौरमुत्क्रथयति / चौरस्य पिनष्टि, चौरं पिनष्टि / जासनाटकाथानामाकारोपान्त्यनिर्देशो यत्राकारश्रुतिस्तत्र यथा स्यादित्येवमर्थः / तेनेह न भवति-दस्युमुदजीजसत् , चौरमनीनटत् , दस्युमुदचिक्रथत् / अत एव च क्राथेः कर्मसंज्ञाप्रतिषेधपक्षे इस्वस्वाभावः / कर्मणि तु इस्वत्वमेव / हिंसायामिति किम् / चौरं बन्धनाज्जासयतिमोचयतीत्यर्थः / नटं नाटयति-नर्तयतीत्यर्थः / अभावकर्तृकार्थ वचनम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy