________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 504 हृक्रोर्नवा // 2 // 2 // 8 // हरतेः करोतेश्चाणिकर्ता णौ कर्मसंज्ञो वा स्यात् / प्राप्ते चाप्राप्ते चाथं विकल्पः / प्राप्ते-विहरति देशमाचार्यः / विहारयति देशमाचार्यमाचार्येण वा। विकुर्वते सैन्धवाः, विकारयति सैन्धवान् सैन्धवैरिति वा। अत्र गत्यर्थनित्यावर्मकत्वेन यथासंख्यं प्राप्तिः / अप्राप्ते-हरति द्रव्य मैत्रः, हारयति द्रव्यं मैत्रेण मैत्रं वा / करोति कटं चैत्रः, कारयति कटं चैत्रं चैत्रेण वा / अत्र हरतिश्चौर्यार्थो न प्रापणार्थः, करोतिश्च सकर्मक इत्यप्राप्तिः।। 505 दृश्यभिवदोरात्मने // 2 / 2 / 9 / / दृशेरभिपूर्वस्य वदतेश्चात्मनेपदविषयेऽणिकर्ता णौ कर्मसंज्ञो वा स्यात् / पश्यन्ति भृत्या राजानम् , तान् राजैवानुकूलाचरणेन प्रयुकते दर्शयते राजा भृत्यान् भृत्यैर्वा / अभिवदति गुरूं शिष्यः, अभिवादयते गुरुः शिष्यं शिष्येण वा / अथवा अभिवदति गुरुं शिष्यः, तं मैत्रः प्रयुङ्क्ते, अभिवादयते गुरु शिष्यं शिष्येण वा मैत्रः। आत्मन इति किम् / पश्यति रूपतर्कः कार्षापणम् , दर्शयति रूपतर्क कार्षापणम् / अभिवदति गुरुं शिष्यः, अभिवादयति गुरुं शिष्येण / दृशेर्बोधार्थत्वेन नित्यं कर्मत्वे प्राप्ते अभिवदेस्तु नित्यमप्राप्ते विकल्पः। यदा तु अभिवादिन प्रणामार्थः किंतु शब्दक्रियस्तदा अभिवादयते गुरुं शिष्यं मैत्र इति नित्यं प्राप्ते विभाषा / णिगन्तस्यापि वदेणिगीच्छन्त्येके / अभिवादयति गुरुर्देवदत्तं-तस्मिन्नाशिषं प्रतुक्तइत्यर्थः। अभिवादयते गुरुं देवदत्तो गुरुणेति वा-आत्मन्याशिषं प्रयोजयतीत्यर्थः / णिगन्तस्यापीति कश्चित् / अभिवदति गुरुः स्वयमाशिपम् , तं शिष्यः प्रयुक्ते अभिवादयति गुरुमाशिषं शिष्यः, तं मैत्रः प्रयुङ्क्ते अभिवादयते गुरुमाशिष शिष्यं शिष्येण वा मैत्रः / नामधातोरपीच्छत्यन्यः। 506 नाथः // 2 / 2 / 10 // अणिकर्ता ‘णापिति निवृत्तम् , पृथग्योगात् / आत्मनेपदविषयस्य नाथतेाप्यं कर्म वा स्यात् / आत्मनेपदविषयत्वं चास्याशिष्येवेति तत्रैवायं विधिः / सर्पिषो नाथते, सपि थते / सर्पिर्म भूयादित्याशास्त इत्यर्थः / आत्मन इत्येव / पुत्रमुपनाथति पाठाय / उपयाचते इत्यर्थः / 507 स्मृत्यर्थदयेशः // 2 / 2 / 11 // स्मरणार्थानां दयतेरीशश्च व्याप्यं कर्म वा स्यात् / मातुः स्मरति, मातरं स्मरति / मातुः स्मयते, माता स्मयते / मातुर्ध्यायति, मातरं ध्यायति इत्यादि / सर्पिषो दयते, सर्पिर्दयते। लोकानामीष्टे, लोकानीष्टे / 15