________________ 112 सिद्धहैमबृहत्मक्रिया. [कारक एवमालापयति मित्र मैत्रमित्यादि / शब्दव्याप्यानाम्-शृणोति शब्दं मैत्रः, श्रावयति शब्दं मैत्रम् / अधीते बटुर्वेदम् , अध्यापयति बटुं वेदमित्यादि / नित्याकर्मकाणाम्-आस्ते मैत्रः, आसयति मैत्रं चैत्रः / शेते मैत्रः, शाययति मैत्रं चैत्रः / नित्यग्रहणं पूर्वत्राविवक्षितकर्मकपरिग्रहार्थम् / अन्यथा विभागो न ज्ञायेत / कालाध्वभावदेशैश्च सर्वेऽपि धातवः सकर्मका एवेत्यन्यकर्मापेक्षया नित्याकर्मका वेदितव्याः / गत्यर्थादीनामिति किम् / पचत्योदनं चैत्रः, पाचयत्योदनं चैत्रेण मैत्रः / अणिकर्तेत्येव / गमयति चैत्रो मैत्रम् / तमपरः प्रयुङ्क्ते गमयति चैत्रेण मैत्रं जिनदत्तः। नयत्यादिवर्जनं किम् / नयतेः प्रापणोपसर्जनमाप्त्यर्थत्वेन गत्यर्थखात् , खाद्यद्योराहारार्थखात् , ह्वाशब्दायक्रन्दां च शब्दकर्मकखात कर्मत्वे प्राप्त प्रतिषेधार्थम् / नयति भारं चैत्रः, नाययति भारं चैत्रेण / खादयत्यपूपं मैत्रेण / आदयति ओदनं मैत्रेण / हापयति चैत्र मैत्रेण / क्रन्दयति मित्रं मैत्रेण / कर्मसंज्ञामतिषेधात् स्वव्यापाराश्रयं कर्तृत्वमेव / प्रेषणाऽध्येषणादिना प्रयोजकव्यापारेण णिगन्तवाच्येनाऽणिकर्तुाप्यत्वात् कर्मसंज्ञा सिद्धैव नियमार्थं तु वचनम् / प्रयोजकव्यापारेण व्याप्यमानस्य गत्यर्थादिसंबंधिन एव प्रयोज्यस्य कर्तुः कर्मसंज्ञा भवति तेनान्यधातुसंबंधिनः कर्तृत्वमेव भवति / 502 भक्षेहिसायाम् // 2 // 26 // भक्षेः स्वार्थिकण्यन्तस्य हिंथार्थस्याणिकर्ता णौ कर्मसंज्ञः स्यात् / भक्षयन्ति सस्यं बलीवर्दाः / तान् प्रयुङ्क्ते भक्षयति सस्यं बलीवान मैत्रः / उक्ते च कर्मणि-भक्ष्यन्ते यवं बलीवर्दाः, भक्ष्यते यवो बलीवर्दान् मैत्रेणेति वा। वनस्पतीनां प्रसवप्ररोहवृद्धयादिमत्वेन चेतनत्वात् तद्विशेषस्य सस्यस्य प्राणवियोगस्तद्भक्षणात् स्वाम्युपघातो वाऽत्र हिंसेति भक्षेहिँसार्थता / हिंसायामिति किम् / भक्षयति पिण्डी शिशुः, तं प्रयुङ्क्ते भक्षयति पिण्डी शिशुना / आहारार्थत्वात् प्राप्ते नियमार्थ वचनम्। 503 वहेः प्रवेयः // 2 // 27 // प्रवीयते प्राजतिक्रियया व्याप्यते यः प्रवेयः। वहेरणिकर्ता प्रवेयो णौ कर्मसंज्ञः स्यात् / वहन्ति बलीवर्दा भारम् , तान् प्रयु ङ्क्ते वियोक्ता वाहयति भारं बलीवर्दान् / वाहयिता बलीवर्दानां भारम् / वाह्यन्ते भारं बलीवर्दाः। प्रवेय इति किम् / वाहयति भारं मैत्रेण / नात्र मैत्रो बलीवर्दादिवत् प्रवेयः। प्राप्त्यर्थस्य पापणार्थस्य च वहेर्गत्यर्थत्वात् अकर्मकस्य च नित्याकर्मकत्वात् पूर्वेण सिद्धे नियमार्थमविवक्षितकर्मकस्य तु पक्षे विध्यर्थ चेदम् /