SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 111 तद्वत्प्रकाशमाना द्वितीयोत्पत्तौ निमित्तं न भवति / यथा च ग्रामो गन्तुमिष्यते देवदत्तेनेति ग्रामस्य प्रधानेपिक्रियाविषयां कर्मशक्तिमात्मनेपदेनाभिदधताऽप्रधानगमिक्रियाविषयाऽपि कर्मशक्तिरुपभुक्तेति तदभिधानाय द्वितीयाचतुर्थो न भवत इति / इह च गौणत्वं क्रियापेक्षं तेनाजां नयति ग्राममित्यादौ ग्रामाद्यपेक्षयाजादेः प्रधानत्वेऽपि गौणत्वं न विहन्यत इति / इह तु कृतपूर्वी कटं, भुक्तपूर्वी ओदनम् , व्याकरणं सूत्रयतीत्यादौ यः कृतादिभिः कटादेरभिसंबंधः स प्रत्ययेऽर्थान्तराभिधायिन्युत्पन्ने कृतादीनामुपसर्जनत्वात् निवर्तते, क्रियया तु सह संबंधोऽस्तीति व्याप्यत्वाद् द्वितीया भवति। कर्तुळप्यं कर्मेति सूत्रे कर्तुरिति किम् / माषेवश्वं वनाति / अश्वेन कर्मणा भक्षणक्रियया स्पर्शनक्रियया वा माषाणां व्याप्यानां कर्मणां कर्मसंज्ञा मा भूत् / वीति किम् / पयसा ओदनं भुङ्क्ते / अत्र करणस्य मा भूत् / 500 वाऽकर्मणामणिकर्ता णौ // 22 // 4 // अविवक्षितकर्माणोऽकर्माण उत्तरत्र नित्यग्रहणात् / तेषामणिगवस्थायां यः कर्ता स णौ णिगि सति कर्मसंज्ञो वा स्यात् / पचति चैत्रः, पाचयति चैत्रं चैत्रेण वा / गत्यर्थादीनां तु परत्वान्नित्य एव विधिः / किं करोतीति व्यापारमात्रविवक्षायां चाविवक्षितकर्माणो भवन्ति / 501 गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिवाशब्दायक्रन्दाम् / / 2 / 2 / 5 / / गतिदेशान्तरप्राप्तिः / बोधो ज्ञानमात्रम् तद्विशेषश्च / शब्दः कर्म क्रिया व्याप्यं च येषां ते शब्दकर्माणः। नित्याकर्मणः सर्वदाऽविद्यमानव्याप्याः। गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां नित्याकर्मणां च धातूनां नीखाद्यदिह्वयतिशब्दायतिक्रन्दवर्जितानामणिगवस्थायां यः कर्ता स णौ सति कर्मसंज्ञो वा स्यात् / गच्छति मैत्री ग्रामम् , गमयति मैत्रं ग्रामम् / देशान्तरप्राप्तेरन्यत्र न भवति / स्त्रियं गमयति मैत्रेण चैत्रः / भजनार्थोऽत्र गमिः / बुध्यते शिष्यो धर्मम् , बोधयति गुरुः शिष्यं धर्मम् / अत्र सामान्यबोधार्थः। विशेषबोधार्थे यथा-पश्यति रूपतर्कः कार्पापणम् , दर्शयति रूपतर्क कार्षापणं वणिक् / एवं प्रापयति मैत्रमुत्पलमित्यादि / अन्ये तु बोधविशेषार्थस्य दृशेरेवेच्छन्ति नान्येषाम् / तन्मते जिघ्रत्युत्पलं चैत्रः, घ्रापयत्युत्पलं चैत्रेण मैत्रः / एवं स्पर्शयति मैत्रेण वस्त्रम् , श्रावयति धर्म शिष्येणेत्यादौ प्रयोज्यकर्तरि तृतीयैव भवति / आहारार्थे-भुङ्क्ते बटुरोदनम् , भोजयति बटुमोदनम् / शब्दक्रियाणाम्-जल्पति मैत्रो द्रव्यम् , जल्पयति मैत्रं द्रव्यम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy