________________ 110 सिद्धहैमबृहत्प्रक्रिया. [कारक दर्शनीयमिति भीष्मादिविशेषणविशिष्टस्य कटस्य करोतिक्रियया व्याप्यत्वात् कर्मत्वम्, तच्च कटशद्वादेवोत्पन्नया द्वितीययाभिहितमिति भीष्मादिभ्यो द्वितीया न पामोति, यथा कृतः कटो भीष्म उदारो दर्शनीय इति करोतेः क्तप्रत्ययेनेति। नैवम् / भीष्मत्वादियुक्तस्य कटस्य संबंधि कर्मत्वं प्रतिपाद्यम् / न च जातिशब्दाः संभविनोऽपि गुणान् प्रतिपादयितुं समर्था इति तत्प्रतिपादनाय यथा भीष्मादिशब्दप्रयोगो भवति तथा द्वितीयापि तेभ्यो भविष्यति / नहि सामान्यवाचिनः व टशब्दादुत्पद्यमाना द्वितीया भीष्मादीनामनियताधाराणां गुणानां कर्मत्वममिधातुं शक्नोति / यदि वा कटोऽपि कर्म भीष्मादयोऽपि, यथैव ह्ययं कटं करोत्येवं तद्गतान् भीष्मादीनपि / तत्र यद् यत् करोतिना व्याप्तुमिष्टं तत्सर्व द्रव्यं गुणश्च कर्मेति सर्वेषां पृथक्कर्मत्वे प्रत्येकं द्वितीया पश्चात् त्वेकवाक्यतया विशेषणविशेष्यभाव इति / यदि वा द्रव्यस्य क्रियासु साक्षादुपयोगादस्तु कटस्यैव कर्मत्वम् , भीष्मादीनां तु न केवला प्रकृतिः प्रयोक्तव्येति नियमात अविभक्तीनामप्रयोगार्हत्वादेकविभक्तिमन्तरेण च सामानाधिकरण्यविशेषणत्वायोगाद्यथेश्वरसुहृदां स्वयं निर्धनत्वेऽपि तदेकयोगक्षेमत्वात् तद्धनेनैव फलभाक्त्वं भवत्येवमकर्मणामपि कटकटकर्मत्वेनैव द्वितीया भविष्यति / कृतः कटो भीष्म उदारो दर्शनीय इत्यादौ तु करोतेरुत्पद्यमानः क्तो यस्य यस्य तया क्रियया संबंधस्तस्य तस्य साकल्येन कर्मत्वमभिदधाति इति कचिदपि द्वितीया न भवति / कथं तर्हि कृतं पश्य, आहृतमाहर, कर्ता क्रियते, दात्रेण लुनाति, दानीयाय ददाति, भीमाद् विभेति, प्रासादे प्रसीदति, शयने शेते-इत्यादिषु क्तादिभिरभिहितेषु कर्मादिषु कर्मादयो भवन्ति ? / उच्यते / कर्मादिसामान्यं कृद्भिरभिहितम् , तत्राप्यभिहितः सोऽर्थोऽन्तर्भूतो नामार्थः संपन्न इति कर्मादिशक्तियुक्तं द्रव्यमेतदन्तैः शब्दैरभिधीयते यथेदं कर्म इदं करणभिति / तत्र यासौ स्वरूपकालभिन्नायां क्रियायां सव्यापारतया कर्मादिरूपता तदभिधानाय यथायथं द्वितीयादयो भवन्ति / यत्र पुनरेकद्रव्याधारा प्रधानाप्रधानक्रियाविषयानेका शक्तिर्भवति तत्र प्रधानक्रियाविषयायां शक्तौ प्रत्ययैरभिहितायामप्रधानक्रियाविषया शक्तिः प्रधानशक्त्यनुरोधादभिहितवत् प्रकाशमाना विभक्त्युत्पत्तौ निमित्तं न भवति / यथौदनः पक्त्वा भुज्यते देवदत्तेनेति भावाभिधायिना क्त्वाप्रत्ययेनौदनाधिकरणाप्रधानपचिक्रियाविषया कर्मशक्तिरनभिहितापि प्रधान जिक्रियाविषयात्मनेपदेनाभिहितेति