________________ सिद्धहैमबृहत्पक्रिया. पाराः-निवर्तते, विकुरुते, आभासमुपगच्छतीत्यादयः / त्रिविधमप्येतत् पुनस्त्रिविधम् / इष्टम् 1 अनिष्टम् 2 अनुभयम् 3 च / यदवाप्तुं क्रियारभ्यते तदिष्टम् / यद् द्विष्टं प्राप्यते तदनिष्टम् / यत्र नेच्छा न च द्वेषस्तदनुभयम् / 499 कर्मणि // 2 // 2 // 40 // गौणान्तानाम्नः कर्मणि कारके द्वितीया स्यात् / कटं करोति / ओदनं पचति / आदित्यं पश्यति / अहिं लधयति / ग्राम गच्छन् वृक्षमूलान्युपसर्पति / पुनस्तत्कर्म द्विविधम् / प्रधानेतरभेदात् / तच्च द्विकर्मकेषु धातुषु दुहिभिक्षिरुधिच्छिचिगब्रूगशास्वर्थे याचिजयतिप्रभृतिषु च भवति / गां दोन्धि पयः / गां स्रावयति पयः। पौरवं गां भिक्षते / पौरवं गां याचते / गामवरुणद्धि ब्रजम् / छात्रं पन्थानं पृच्छति / छात्रं वाक्यं चोदयति / वृक्षमवचिनोति फलानि / शिष्यं धर्म ब्रूते / शिष्यं धर्ममनुशास्ति / क्रुद्धं याचते शमावस्थाम् / अविनीतं याचते विनयम् / याचिरिहानुनयार्थः, तेन भिक्षार्थाद् भेदः / गर्गान् शतं जयति / गर्गान् शतं दण्डयति / अमृतमम्बुनिधि मथ्नाति / अजां ग्रामं नयति / ग्रामं भारं हरति / उपसरजमश्च मुष्णाति / ग्रामं शाखां कर्षति / ग्राम भार वहति / द्धये तु यदन्यत् क्रियया व्याप्यते गवादि तदप्रधानम् / यदा तु पयोऽर्था प्रवृत्तिरविवक्षिता तदा प्रधानस्यासंनिधानात् गवादेरेव प्राधान्यम् / यथाश्वर्यो गवां दोह इति / तत्र दुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययो भवति-गौद्यते दुग्धा दोह्या वा पयो मैत्रेणेत्यादि / नीवहिहरतिप्रभृतीनां तु प्रधाने कर्मणि प्रत्ययः, यथानीयते नीता नेतव्या वा ग्राममजेत्यादि / गत्यनामकर्मणां च णिगन्तानां प्रधान एव कर्मणि-गमयति मैत्रं ग्रामम् , गम्यते गमितो गम्यो वा मैत्रो ग्रामं चैत्रेण / आसयति मासं मैत्रम् / आस्यते मासं मैत्रश्चैत्रेण / अन्यस्त्वप्रधानेऽपीच्छति / गम्यते मैत्रं ग्रामश्चैत्रेण / आस्यते मासो मैत्रं चैत्रेण / बोधाहारार्थशब्दकर्मकाणां तु णिगन्तानामुभयत्र / बोधयति शिष्यं धर्मम् / बोध्यते धर्मः शिष्यम् इति वा। भोजयत्यतिथिमोदनम् , भोज्यतेऽतिथिमोदन इति वा / पाठयति शिष्यं ग्रन्थम् / पाठयते शिष्यो ग्रन्थम् / पाठयते शिष्यं ग्रन्थ इति वा / अथेह कस्मान्न भवति द्वितीया क्रियते कटः, कृतः कटः, शतेन क्रीतः शत्यः पटः, आरूढो वानरो यं स आरूढवानरो वृक्ष इति / त्यादिकृत्तद्धितसमासैरभिहितत्वालोकशास्त्रयोश्चाभिहितेऽर्थे शद्धप्रयोगायोगात् / यद्येवं कटं करोति भीष्ममुदार