________________ 1210 स्थानिवद्भावपुंवद्भावैकशेषद्वन्द्वैकत्वदीर्घत्वान्यनित्यानि // 19 // स्थानिवद्भावादीनि पञ्च अनित्यानि-यथाप्राप्ति भवन्ति न भवन्ति चेत्यर्थः। छन्द्वकत्वं समाहारद्वन्द्वः / दीर्घत्वं च सामान्योक्तमपि 'भ्वादेर्नामिनः // 21 // 63 // इति सूत्रविहितमत्र विवक्षितम् / एषां भवनोदाहरणानि सुलभानीति नेहोच्यन्ते, अभवनोदाहरणान्येव प्रदर्श्यन्ते / तत्र स्थानिवद्भावे यथा-स्वादुशब्दात् स्वाद्वकार्षीदिति णिजि-असिस्वददित्यत्र उकारस्य वृद्धौ अन्त्यस्वरादिलुक् / तस्य स्थानिवद्भावाभवनेन आकारस्योपान्त्यत्वात् ' उपान्त्यस्यासमान०' // 4 / 2 / 35 // इति ह्रस्वः सिद्धः / अत्रांशे ज्ञापकं-मालामाख्यत् अमालदित्यादावन्त्यस्वरादिलुकः स्थानिवद्भवने आकारस्योपान्यत्वादेव ह्रस्वनिषेधे सिद्धयत्यपि 'उपान्त्यस्यासमान०' इत्यत्रासमानलोपिग्रहणम् / तद्धि स्थानिवद्भावस्यानित्यत्वादभवनशंकयैव कृतम् / पुंवद्भावे यथा-दक्षिणस्यां भवो दाक्षिणात्य इत्यत्र 'सर्वादयोऽस्यादौ // 32 // 61 // इति प्राप्तोऽपि पुंवद्भावोऽनित्यत्वादेव नाभूत् / सति हि तस्मिन् स्त्रीत्वनिवृत्या निमित्ताभाव इति न्यायेन स्त्रीत्वहेतुकस्यापोऽपि निवृत्तौ दाक्षिणत्य इति स्यात् / अत्रांशे ज्ञापकं तु 'कौण्डिन्यागस्ययोः कुण्डिनागस्ती च' // 61 / 127 // इत्यत्र कौण्डिन्येति निर्देशः। अयं हि वद्भावानित्यत्वं विना न कदापि सिद्धयति / तथाहि-कुडुङ् दाहे इत्यस्मात् 'अजातेः शीले' // 5 / 1 / 154 // इति णिनि स्त्रीत्वे यां कुण्डिनी / ततः कुण्डिनीशब्दात् वृद्धापत्याथै 'गर्गादेः' // 61 // 42 // इति यत्रि 'जातिश्च णितद्धितयस्वरे' // 32 // 51 // इति पुंवद्भावो यदि स्यात्तदा स्त्रीत्वनिवृत्त्या तहेतुकस्य कुण्डिनीशब्दस्थङीप्रत्ययस्यापि निवृत्तौ 'नोऽपदस्य० // 74 / 61 // इति इन्लोपे कौण्ड्येति प्रामोति / सत्यप्येवं यत्कौण्डिन्येति निर्दिष्टं तदेन्न्यायेन पुंवद्भावानित्यत्वादभवने 'अवर्णेवर्णस्य' // 4/68 // इति ईल्लुग्रूपस्य स्वरादेशस्य स्थानिवद्भावेन नोsपदस्येति प्राप्तस्य इन्लोपस्याभवनात् कौण्डिन्येतिरूपसिद्धिसंभावनयैव / एकशेषे यथा-तदतदात्मकं तत्त्वमातिष्ठन्ते जैनाः-इत्यत्र 'त्यदादिः' // 3 // 120 // इति प्राप्तस्तच्छब्दैकशेषो न / अत्रांशे तु ज्ञापकं त्वीदक्प्रयोगा एव / द्वन्द्वैकत्वे यथा शंखदुन्दुभिवीणाः / अत्र 'प्राणितूर्याङ्गाणाम् ' // 3 // 137 // इति प्राप्तोऽपि समाहारद्वन्द्वो न / अत्रांशे च ज्ञापकं 'प्राणितूर्याङ्गाणाम्' इति बहुवचनमेव / एकवचनेनैव निर्वाहे बहुवचनमिदं कस्यचिविशेषस्य शप्त्यर्थमेव / इह च यदि तत्प्रयुक्तं तज्ज्ञायते किञ्चिदत्र प्रयोजनमस्तीति / तच्चात्र द्वन्द्वैकत्वानित्यताशतिरेव अन्यप्रयोजनाभावात् / दीर्घत्वे यथा-कुर्दि क्रीडायाम्-' रम्यादिभ्यः कतरि' // 5 / 3 / 126 // इत्यनेन कुर्दनः इत्यादौ अनित्यत्वादेव ' भ्वादेर्नामिनः' // // 163 // इति दी| नाभूत् / अत्रांशे शापकं तु ' भ्वादेर्नामिनः' इत्यनेनैव दीर्घ सिद्धेऽपि स्फूर्ज, ऊर्ज, ऊर्ण-इत्यादीनां कृतदीर्घाणामेव धातुषु पठनं न तु हु मुर्छादीनामिवाकृतदीर्घाणाम् / सदीर्घपठनं हि स्फूर्जादीनां दीर्घत्वाव्यभिचारज्ञापनद्वारेणान्येषां क्वचित्तव्यभिचारज्ञापनार्थम् / एतन्न्यायांशाभावे कस्यार्थस्य