________________ 1209 तामपि भजेत; यस्तु द्विाप्यते तस्यैतन्न्यायेनानित्यत्वभयं न स्यादित्येतदर्थः। एतन्न्यायाभावे द्विििपतस्यापि विधेरनित्यत्ववारणं दुर्निवारमेव। अनित्यत्वमप्यस्य नकारलोपाभावने दंदंशीतीत्यस्यापि सर्वैः स्वीकृतत्वात् / 'जपजभ,' इत्यस्य वृत्तावपि साक्षादुक्तत्वाच्च / अयं न्यायोऽग्रेतनाश्चोणादयोऽव्युत्पन्नानीति यावत्सर्वे न्यायाः सर्व वाक्यं सावधारणमिति न्यायस्यानित्यत्वप्रपञ्चीभूता एव // 16 // ___आत्मनेपदमनित्यम् // 17 // यथाशिष्टप्रयोगं क्वचित्प्राप्तमप्यात्मनेपदं न स्यात् क्वचिच्चाप्राप्तमपि भवतीत्यनित्यशब्दार्थः / तत्र प्राप्तस्याप्यभवनं यथा-'सम्यक् प्रणम्य न लभन्ति कदाचनापि' इत्यादिषु डुलभिष् प्राप्तावित्यादिधातूनामिङित्वात्प्राप्तमप्यात्मनेपदं नाभूत्। अप्राप्तस्यापि भवनं यथा-'प्रकृतेर्गुणसंमूढाः सजन्ते गुणकर्मसु'इत्यादिषु षस्ज् गतापित्यादीनामिङित्त्वाभावेऽप्यात्मनेपदमभूत् / शापकमस्य पजङ् श्रेजुङ् भ्राजि दोप्ताविति भ्राजेरात्मनेपदिषु पाठेऽपि राजम् टुभ्राजि दीप्तावित्यत्र पुनः पाठः। भ्राजेरयमात्मनेपदिषु द्विःपाठस्तावद् पूर्वन्यायेनास्यात्मनेपदाव्यभिचारार्थः / तदर्थ चेयान् यत्नस्तदैव कर्तुं युज्येत यदि कथंचिदात्मनेपदस्य व्यभिचारः संभवेत् / एतन्न्यायाभावे कुतोऽस्य संभवः। अस्याप्यनित्यत्वम् / तेन 'इडितः कर्तरि' // 3 // 3 // 22 // इति विहितमेवात्मनेपदं यथाप्रयोगदर्शनं क्वचिदनित्यं न तु 'क्रियाव्यतिहारेऽगतिहिंसा०' // 3 / 3 / 23 // इत्यादिना विहितम् // 97 // किपि व्यञ्जनकार्यमनित्यम् // 98 // प्राप्तमपि न भवतीत्यनित्यशब्दार्थः। तत्राख्यातक्विपि यथा-राजेवाचरति 'कर्तुः क्विप् गल्भक्लीबहोडात्तु ङित् // 3 / 4 / 25 // इति क्विपि राजानतीत्यादौ क्किप्सत्कवकारव्यञ्जनद्वारप्राप्तस्य ' नाम सिदव्यंजने' // 1 // 21 // इति नस्य लुग् न / कृक्तिपि यथा-गीर्यते इति 'क्रुत्संपदादिभ्यः किए' // 5 / 3 / 114 // इति क्विपि गिरौ गिरः / अत्र प्राग्वत्प्राप्तपदत्वाभवनात् ' पदान्ते' // 21 // 64 // इति न दीर्घः / ज्ञापकमस्य मित्रं शास्तीति मित्रशीरित्यादौ क्विपो व्यञ्जनादित्वात् 'इसासः शासोऽव्यञ्जने' // 4 / 4 / 118 // इत्यनेनैव इसि सिद्धयत्यपि 'क्वौ' // 4|4|119 // इति सूत्रस्य करणम् / तद्धि एतन्न्यायेन विपि व्यञ्जनद्वारोक्तकार्य न भविष्यतीति कृतम् / अस्मिन्न्याये क्विपीत्यस्योपलक्षणत्वाद् वि. च्यपि व्यञ्जनकार्यमनित्यम् / यथा मुख्यमाचष्टे णिजि 'मन्वन्० // 5 / 11147 // इति विचि मुख्य। तं मुख्यम्-अत्र विचि परे 'वोः प्वव्यञ्जने लुक' // 12 // इति यलुक् नाभूत् / अनित्यता त्वस्य नास्ति / केचित्तु क्विपि किश्चिद् व्यअनकार्य नित्यमपीच्छन्ति / यथा च जयकुमारः-पां पाने इत्यस्य क्विपि 'अप्रयोगीत् // 21 // 35 // इति तल्लुकि लुप्तेऽपि व्यञ्जनादौ प्रत्यये 'इय॑ञ्जनेऽयपि // 4 // 3 // 97 // इति ईत्वमिच्छन् पीरित्याह / तदपेक्षया अस्य न्यायस्य अनित्यत्वमपि ध्वन्यते // 18 // 152