________________ 1208 एतद् झापकमादशभ्य इति पदं व्युदस्य शेषवाक्यापेक्षया योज्यम् / संख्येये वर्तमानाऽपि काचित्संख्यास्तीत्येतावत एवार्थस्थानेन ज्ञाप्यमानत्वात् / अस्य चानित्यत्वम् / तेन 'आसन्नादूर०' // 3 // 120 // इति बहुव्रोहौ 'प्रमाणीसंख्याइ डः // 73 / 128 // इति डे च आसन्नदशा इति कोऽर्थः नवैकादश धा / अत्र आसन्ना दशेति कोऽर्थः ? दश संख्या येषामिति वाक्यं सिद्धम् // 94 // णौ यत्कृतं कार्य तत्सर्व स्थानिवद् भवति // 9 // णाविति निमित्तसप्तमी / यथा स्फुरत् णौ सनि पुस्फारयिषति / अत्र 'चि. स्फुरोर्न वा // 4 // 2 // 12 // इति आत्वस्य णौ निमित्ते सति कृतस्य स्थानिवद्भावात् स्फु इति द्वित्वं सिद्धम् / झापकमस्य युक् मिश्रणे, पूग्श् पवने आभ्यां सनि यियविषति, पिपविषतीत्यादौ पूर्वस्य उत इत्वार्थमोः पयेऽवणे इत्येतावेतैव सूत्रेण सरत्यपि जुं गतौ सौत्रो धातुः, यौतिपुनाती तु प्रागुक्तावेव-एभ्यो णौ सनि जिजावयिषति, यियावयिषति, पिपावयिषतीत्यादौ ण्यन्तानामपि जवत्यादीनामुत इत्वार्थ 'ओन्तिस्थापवर्गेऽवणे' // 4 // 1 // 60 // इति बृहत्सूत्रकरणम् / एतन्न्यायाभावे जिजावयिषतीत्यादिष्वन्तरङ्गत्वात् प्रथमं वृद्धयावादेशौ कृत्वा पश्चाद् द्वित्वे 'सन्यस्य' // 4 / 159 // इत्यनेनैव इत्वं सिद्धयतीति किमर्थ 'ओन्तिस्था० // 4 // 1 // 60 // इति बृहत्सूत्रं क्रियेत / परमेतन्न्यायेन वृद्धयादेः स. र्वस्य स्थानिवद्भवनात् ' सन्यस्य ' इत्यनेनेत्वासिद्धेरुत इत्वार्थ 'ओन्तिस्था०' इति बृहत्सूत्रकरणम् / अनित्यश्चायम् / तेन यस्य णिनिमित्तकृतकार्यस्य स्थानिवद्भावश्चिकीर्ण्यते तदाऽऽधारभूतो वर्णो वर्णसमुदायो वा अवर्णवान् यदि स्यात्तदैवायं न्यायः स्फुरेन्नान्यथा / तेन कृतणश्चरादित्वात् णिचि ‘कृतः कीर्तिः' // 4 / 4 / 122 // इति कीर्तादेशे अचिकीर्तत् / अत्र की इत्येव द्वित्वं न तु कृ इति / कीर्त इतिवर्णसमुदायस्य ईकारवत्त्वादवर्णत्त्वाभावेन स्थानिवद्भावाभवनात् / अयं न्यायः 'स्थानीवावर्णविधौ // 74 / 109 // इति परिभाषायाः प्रपञ्चः // 15 // द्विर्बद्धं सुबद्धं भवति // 96 // अयमर्थः-यदर्थ व्याकरणधातुपाठादौ प्रयत्नद्वयं कृतं तद् द्विर्बद्ध कार्य सुब द्धम्-अव्यभिचारि स्यात् / यथा असूच क्षेपणे-अद्य०-आस्थत्-इत्यत्राङो न व्यभिचारः। अस्यतेः 'शास्त्यमुवक्तिख्यातेरङ्' // 30 // 60 // इति सूत्रे पुष्यादौ च पाठात् / अन्येषां तु पुष्यादिपठितानां क्वचित्तद्वयभिचारोऽपि। यथा 'भगवन्मा कोपी'रिति बालरामायणे / अत्र पुष्यादित्वेऽप्यङ् न / ज्ञापकमस्य दशेर्यङ्लुपि दंदशीतीत्यत्र नस्य लोपः केनापि सूत्रेणाविहितोऽपि स्यादेवेति ज्ञापनार्थ 'गृलु पसदचर०' // 34 / 12 // इत्यत्र दशेति निर्देशे कृतेऽपि पुनस्तदर्थ ' जपजभदह' // 41152 // इत्यत्रापि दशेति निर्देशः। स हि शापकेन सकृज्ज्ञापितो यो विधिः स समासान्तागमेति न्यायात् दशैकादशशब्दस्यादन्तत्ववत् क्वचिदनित्य