________________ 1203 पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात् सन्धिकार्यम् // 8 // __ अन्तरङ्गं बहिरङ्गादित्याद्यपवादोऽयम् / तत्र पूर्वपदकार्य यथा-अग्निश्चेन्द्रश्च अग्नेन्द्रौ इत्यत्र पूर्वपदस्याग्नेरिकारस्य 'वेदसहश्रुता०' // 4 / 2 / 41 // इत्यात्वमेव द्वन्द्वसमासापेक्षत्वाद् बहिरङ्गमपि प्रथमं क्रियते नतु तदनपेक्षत्वादन्तरङ्गमपि 'समानानां तेन // 1 / 2 / 1 // इति दीर्घत्वरूपं सन्धिकार्यम् / अत्रांशे ज्ञापकं 'य्वः पदान्तात्प्रागैदौत्' // 74 / 5 // इत्यत्र वृद्धिप्राप्तौ सत्यामित्यधिकारानुवतनम् / तद्धि व्याकरणं वेत्त्यधीते वा वैयाकरणः, स्वश्वस्यायं सौवश्व इत्यादौ वि-आकरण-अण् , सु-अश्व-अण, इति स्थिते वि-सुशब्दयोरणि वृद्धिरूपं पूर्वपदकार्यमेव प्रथमं प्राप्स्यति नतु यत्ववत्वरूपं सन्धिकार्यमिति संभाव्यैव / तत्प्राप्तौ च सत्यां ‘यवः पदान्तात्' इतिसूत्रकरणसामर्थ्यात् वृद्धिं बाधित्वा यत्ववत्वे एव स्यातां तत ऐदौतौ चेति एतन्न्यायांशाभावे व्याकरणस्वश्वशब्देयोनिप्पादनकाल एव यत्ववत्वभवनादिवर्णावर्णयोः कथं वृद्धिप्राप्तिः स्यात्तदभावे च कथमेतत्सूत्रेण ऐदौतौ स्याताम् / अस्यांशस्यानित्यत्वं न दृश्यते / उत्तरपदकार्य यथा-परमश्चासावयं च परमायमित्यत्र उत्तरपदस्येदमः स्यादिपुंलिङ्गापेक्षत्वाद् बहिरङ्गोऽपि 'अयमियं पुंस्त्रियोः सौ' // 2 / 9 / 38 // इति अयमादेशः उत्तरपदकार्यमिति प्रथमं क्रियते नतु अन्तरङ्गम् 'अवर्णस्येव० // 22 / 6 // इत्येत्वरूपं सन्धिकार्यम् / अत्रांशे च ज्ञापकम् अग्नेन्द्रौ देवते अस्येति 'देवता' // 6 // 2 // 101 // इत्यणि आग्नेन्द्रं सूक्तमित्यत्र प्रथमं पूर्वपदकार्ये ' वेदसहश्रुता०' // 32 // 41 // इत्यनेनागेरित आत्वे तदनु अणि परे ' देवतानामात्वादौ' // 74 / 28 // इत्युभयपदवृद्धौ प्राप्तायामिन्द्रशब्दरूपस्योत्तरपदस्य ' आतो नेन्द्रवरुणस्य' // 74 / 29 // इत्यनेन वृद्धिनिषेधः। एतन्न्यायांशाभावे इन्द्रशब्दस्थद्विस्वरमध्यात् प्रथमस्वरे अन्तरङ्गत्वात् प्रथमं ' अवर्णस्येवर्णा०' इत्येत्वभवनादपहृते द्वितीयस्वरे च अणि परे परत्वात् ' अवर्णवर्णस्य, // 4 // 68 // इति लुकापहृते इन्द्रशब्दस्य स्वराभावाद् वृद्धिप्राप्तेरेवाभावेन तन्निषेधो व्यर्थ एव स्यात् / अनित्योंऽशोऽयम् / तेन परम इर्यस्य तस्य परमेरित्यत्रेकारस्य 'ङित्यदिति' // 1 / 4 / 23 // इत्येत्वरूपमुत्तरपदकार्य प्रथमं न / सति हि तस्मिन् परमैरित्यनिष्टमापद्येत // 85 // संज्ञा न संज्ञान्तरबाधिका // 86 // यथा प्रस्थ इत्यत्र प्रस्य गत्युपसर्गसंशयोः सद्भावात् 'गतिक्वन्यः // 3 / 1142 // इति तत्पुरुषः 'उपसर्गादातो डोऽश्यः' // 5 // 1 // 56 // इति डश्च युगपदभूताम् / ज्ञापकमस्य प्रादीनां 'धातोः पूजार्थ' // 11 // इत्युपसर्गसंशाकरणम् / यदि हि 'ऊर्याद्यनुकरण' // 31 // 2 // इत्याधनन्तरसूत्रक्रियमाणया गतिसंज्ञयोपसर्गसंज्ञा बाध्यमाना स्यात्तदा निष्फत्वादुपसर्गसंज्ञा कुर्यादेव न / अनित्यश्वायम् / 'स्पृहेाप्यं वा' // 2 / 2 / 26 // इत्यत्र वाग्रहणात् / नित्यत्वे त्वस्य कर्मसंप्रदानसंज्ञयोर्बाध्यबाधकभावाभावादुभयोरपि तयोः प्रवृत्तेर्विकल्पाकरणेऽपि विभक्तिद्वयेन चैत्रं