________________ 1204 चैत्राय वा स्पृहयतीति बैरूप्यसिद्धेर्विकल्पविधाने किं फलम् / तथापि यद्विकल्पः क्रियते तदेतन्न्यायानित्यत्वेन संप्रदानसंशया कर्मसंज्ञाया बाधा मा भूदिति फलकः // 86 // प्रतिकार्य संज्ञा भिद्यन्ते / / 87 // __ कार्य कार्य प्रति संज्ञाभिधायकानि सूत्राणि भिद्यन्ते // अयंभावः- करणं च' // 22 // 19 // इति सूत्रेण दिवः करणस्य युगपत्कर्मकरणसंज्ञयोर्विधानादक्षानखैर्वा दीव्यतीति द्वैरूप्यं सिद्धम् / तथा अक्षैर्देवयते मैत्रश्चैत्रेणेत्यत्राक्षशब्दस्य करणत्वात् तृतीया भवति कर्मत्वाच्च 'गतिबोधाहारार्थ०' // 22 // 5 // इत्यनेन प्राप्तं नित्याकर्मकलक्षणम् अणिकर्तुः कर्मत्वं न स्यात् / तथा अक्षशब्दस्य कर्मत्वादेव देवयतेः 'अणिगि प्राणिकर्तृका० // 3 // 3 // 107 // इत्यनेन प्राप्तमकर्मकलक्षणं परस्मैपदं न स्यात् / अत्राह परः-नन्वःर्देवयते मैत्रश्चैत्रेणेत्यादौ संज्ञाद्वययौगपद्यं चरितार्थम् / ततोऽक्षाना दीव्यतीत्यादौ सत्यपि संज्ञाद्वये स्पर्धे परत्वात् करणत्वहेतुका तृतीयैव भवितुमर्हति नतु द्वितीया। अत्रोत्तरम्-सत्यमेतत् परमनेन न्यायेन द्वितोयाऽपि स्यादेव / तथाहि यद्यपि 'करणं च' इति सूत्रे युगपत्संशावयमस्ति परमक्षान:र्वा दीव्यतीति प्रयोगव्यं यद् दृश्यते तत्सिद्धयर्थमनेन न्यायेन 'करणं च' इति सूत्रमावृत्या द्विधा व्याख्यायते यथा-दिवः करणं कर्म स्यात् इति, दिवः करणं करणं स्यादिति च / तत्राद्यव्याख्याने इदं सूत्रं कर्मसंज्ञाया एव विधायकं न तु करणसंशाया इति कल्पने निर्बाधमक्षान् दीव्यतीति सिद्धम् / द्वितीयव्याख्या तु अझर्दीव्यतीति प्रयोगस्य सर्वाभिमतत्वेन निर्विगानैव / अयमपि न्यायः पूर्वन्यायार्थमेव भंग्यन्तरेण समर्थयतीति ज्ञापकादि सर्वे पूर्ववदृह्यम् // 8 // सापेक्षमर्थक्त् / / 88 // पदान्तरसापेक्षं पदं समासादिपदविधीन् प्राप्तुं नालम् / यथा ऋद्धस्य राज्ञः पुरुषः। अत्र राजशब्दस्य ऋद्धविशेषणसापेक्षत्वात् पुरुषशब्देन सह न समासः / शापकमस्य ईदृक्प्रयोगेषु समासादि निषेधुं यत्नाकरणमेव / 'समर्थः पदविधिः // 74122 // इति परिभाषायाः प्रपश्चोऽयम् / अनित्यश्वायम् / देवदत्तस्य दासभार्येत्यादौ दासशब्दस्य देवदत्तस्येतिपदुसापेक्षत्वेऽपि समासदर्शनात् / देवदत्तस्य यो दासस्तस्य भार्येति ह्यत्रार्थः // 88 // प्रधानस्य तु सापेक्षत्वेऽपि समासः // 89 // यस्य क्रियया सह सामानाधिकरण्येन प्रयोगस्तत्प्रधानम् / यथा राजपुरुषोऽस्ति दर्शनीयः इत्यादौ समासात्प्रागवस्थायां पुरुषशब्दस्य स्वविशेषणदर्शनीयशब्दसापेक्षत्वेऽपि राजशब्देन तत्पुरुषः / य एव हि पुरुषत्वस्याधिकरणं स एवास्तीतिक्रियाया अपीति क्रियया सह सम्मानाधिकरण्यप्रयोगेण पुरुषशब्दस्य प्रधानत्वात् / शापकमस्य पुरुषो व्याघ्रः शूर इत्यादौ पुरुषव्याघशब्दयोः