SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 107 // अथ कारकप्रकरणम् // 494 नाम्नः प्रथमैकद्विवहौ // 22 // 31 // एकत्वद्वित्वबहुत्वविशिष्टे ऽर्थे वर्तमानानाम्नः परायथासंख्यं सिऔजस्लक्षणा प्रथमा विभक्तिः स्यात् / कर्मादि- ' शक्तिषु द्वितीयादिविभक्तीनां विधास्यमानत्वादिह विशेषानभिधानाच परिशिष्टेऽ-. र्थमात्रे प्रथमेति विज्ञायते / तत्र द्वितीयादिविनिर्मुक्तः स्वार्थद्रव्यलिङ्गसंख्याशक्तिलक्षणोऽसमग्रः समग्रो वा पञ्चको नामार्थोऽर्थमात्रम् / तेषु शब्दस्यार्थे प्रवृत्तिनिमित्तं स्वरूपजातिगुणक्रियाद्रव्यसंबंधादिरूपं त्वतलादिप्रत्ययाभिधेयं स्वार्थः / स च भावो विशेषणं गुण इति चाख्यायते / डित्थः / गौः / शुक्लः / कारकः / दण्डी। राजपुरुषः / गर्गाः। यत् पुनरिदंतदित्यादिना वस्तूपलक्षणेन सर्वनाम्ना व्यपदिश्यते स्वार्थस्य व्यवच्छेद्यं लिङ्गसंख्याशक्त्याद्याश्रयः सत्वभूतं तद् द्रव्यं विशेष्यमिति चाख्यायते / इयं जातिः / अयं गुणः / इदं कर्मति / यदर्थे सदसद् वा शद्वत एवावसीयते तत् ङन्यावादिसंस्कारहेतुः स्त्री पुमान् नपुंसकमिति लिङ्गम् / स्त्री / पुमान् / नपुंसकम् / यस्यामेकवचनद्विवचनबहुवचनानि भवन्ति सा भेदप्रतिपत्तिहेतुरेकत्वादिका संख्या / एकः / द्वौ / बहवः / 'निमित्तमेक इत्यत्र विभक्त्या नाभिधीयते / तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते' // यस्यां त्यादिभिरनभिहितायां द्वितीयाद्या व्यतिरेकविभक्तयः षष्ठी च भवति सा स्वपराश्रयाश्रितक्रियोत्पत्तिहेतुः कारकरूपा तत्पूर्वकसंबंधरूपा च शक्तिः , सा चाभिहितार्थमात्रम् / क्रियते कटः। अर्थमात्रं चोपचरितम् / यथा साहचर्यात्-कुन्ताः पविशन्ति / स्थानात्-मञ्चाः क्रोशन्ति / तादात्-इन्द्रःस्थूणा / वृत्तात्-यमोऽयं राजा / मानात्-प्रस्थो व्रीहिः। धरणात्-तुला चन्दनम् / सामीप्यात्-गङ्गातटं गङ्गा / योगात्-रक्तः कम्बलः / साधनात्-अन्नं पाणाः। आधिपत्यात्-ग्रामाधिप्रतिमिः / अलिङ्गमपि / त्वम् / अलिङ्गसंख्यमपि। उच्चैः। शक्तिप्रधानमपि / यतः / द्योत्यमपि / प्रपचति / स्वरूपमात्रमपि / अध्यागच्छति / तदयं वस्तुसंक्षेपःत्याधन्तपदसामानाधिकरण्ये प्रथमेति / यत्रापि त्याद्यन्तं पदं न श्रूयते, वृक्षः , प्लक्ष इत्यादौ तत्रापि गम्यते / यदाह-यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते ' इति / नाम्न इति किम् / निरर्थकाद् वर्णाद् धातुवाक्याभ्यां च मा भूत् / ' एकद्विवहौ' इति संकरनिवृत्त्यर्थम्। ननु चाव्ययेभ्य एकत्वाधभावेन
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy