________________ सिद्धहैमबृहत्मक्रिया. [स्त्रीप्रत्यय ष्यादेशे-कारीषगन्ध्या / देवदत्तस्यापत्यं पौत्रादि स्त्री, इञ् / तस्य ष्यादेशे-दैवदत्त्या / अनार्ष इति किम् / वासिष्ठी / वृद्ध इति किम् / वराहस्य प्रथमापत्यं स्त्री वाराही / अणिञ इति किम् / ऋतभागस्यापत्यमिति बिदादित्वादनि आर्तभागी। बहुस्वरे इति किम् / दाक्षी / गुरूपान्त्यस्येति किम् / औपगवी / अणिवन्तस्य सतो बहुस्वरादिविशेषणं किम् / द्वारस्यापत्यं पौत्रादि स्त्री इतीजि दौवार्या / अत्रेत्रः पूर्वमबहुस्वरत्वेऽगुरूपान्त्यत्वे च सत्यपानि सति बहुस्वरत्वाद् गुरूपान्त्यत्वाच्च यथा स्यात् / स्त्रियामित्येव / कारीषगंधः पुमान् / मुख्यस्येत्येव / करणं 'ष्या पुत्रपत्योः' इत्यत्र विशेषणार्थम् / 490 कुलाख्यानाम् // 2 / 479 / / पुणिकभुणिकमुखरप्रभृतयः कुलाख्याः , कुलमाख्यायते आभिरिति कृत्वा / तासामनार्षे वृद्धेऽणिअन्तानामन्तस्य स्त्रियां ष्यः स्यात् / अबहुस्वरागुरूपान्त्यार्थ वचनम् / पुणिकस्यापत्यं पौत्रादि स्त्री पौणिक्या. भौणिक्येत्यादि / वृद्ध इत्येव / पौणिकी / अत्र प्रथमापत्ये इञ् / अनार्ष इत्येव / गौतमी / गौरादित्वात्तु भौरिकी, भौलिकी। ___ 491 क्रौड्यादीनाम् // 2 / 4 / 80 // अबहुस्वरागुरूपान्त्यार्थोऽनन्तरापत्यार्थ आरंभः / क्रौडि इत्येवमादीनामणिबन्तानामन्तस्य स्त्रियां ध्यादेशः स्यात् / क्रोडस्यापत्यं क्राडिः, स्त्री-क्रौड्या / ष्यस्यादेशलात् क्रौडेय इत्यादिषु आपत्ययस्य लोपः सिद्धः / अन्ये त्वत्र ष्यस्य प्रत्ययत्वमिच्छन्तो यलोपं नेच्छन्ति / क्रौडयेयः / बहुवचनमाकृतिगणार्थम् / 492 भोजसूतयोःक्षत्रियायुवत्योः॥२।४।८१॥ भोजमूतशब्दयोरन्तस्य क्षत्रियायुवत्योरभिधेययोः स्त्रियां ष्यादेशः स्यात् / भोज्या-भोजवंशजा क्षत्रिया। मृत्या-प्राप्तयौवना मानुषीत्यर्थः / अन्ये त्वाहुः- मूतसंबंधिनी युवतिः मूत्या, न सर्वा / क्षत्रियायुवत्योरिति किम् / भोजा, सूता / 493 दैवयज्ञिशौचिक्षिसात्यमुनिकाण्ठेविद्धेर्वा // 2 / 4 / 82 // एषामित्रन्तानां स्त्रियामन्तस्य ष्यादेशो वा स्यात् / इअन्तमात्रनिर्देशात् पौत्रादौ प्राप्ते प्रथमापत्ये त्वप्राप्ते विभाषा , दैवयझ्या, दैवयज्ञी। शौचित्रक्ष्या, शौचिक्षी। सात्यमुग्र्या, सात्यमुग्री / काण्ठेविद्ध्या, काण्ठेविद्धी / इति श्रीसिद्धहैमबृहत्पक्रियायां स्त्रीप्रत्ययप्रकरणं समाप्तम् //