________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. बहुवचनमाकृतिगणार्थम् / कथं तर्हि 'भीरु गतं निवर्तत' इति / भीरुशब्दस्य हि जातिवाचित्वाजातिलक्षणस्योडोऽभावे संबोधने ओत्वं प्रामोति / नैवम् / ताच्छीलिकानां संज्ञाप्रकारत्वात् मनुष्यजातिवचनत्वम् / तथा चोङि सति इस्वत्वं सिद्धम् / अन्ये तु ' अम्र्यपश्यरूपा त्वं कथं भीरुररायसे' इति प्रयोगदर्शनाजातिवचनत्वमनिच्छन्त ऊडं न मन्यन्ते / 485 बावन्तकद्रुकमण्डलोर्नानि // 1474 // बाहुशब्दान्तानाम्नः कद्रकमण्डलुभ्यां च नाम्नि विषये स्त्रियामूङ् स्यात् / भद्रबाहुः / कद्रः / कमण्डलूः। संज्ञा एताः / नाम्नीति किम् / वृत्तौ बाहू अस्याः वृत्तबाहुः / 486 उपमानसहितसंहितसहशफवामलक्ष्मणादूरोः // 2 / 4 / 75 // उपमानादिपूर्वपदादूरुशब्दात् स्त्रियामूङ् स्यात् / करभ इव ऊरू यस्याः सा करभोरूः। सहितोरूः / संहितोरूः / सहोरूः / शफोरूः / वामोरूः / लक्ष्मणोरूः। उपमानाद्यादेरिति किम् / वृत्तोरुः / पीनोरुः / कथं स्वामिन ऊरू स्वाम्यूरू, हस्तिन इव स्वाम्यूरू यस्याः सा हस्तिस्वाम्यूरुः वडवा, एवं करभमानूरुः ? / नात्रोरुशब्द उपमानादिपूर्वः, अपितु स्वाम्यूरुमात्रुशब्दो। 487 नारी सखी पञ्जू श्वश्रू।२।४।७६॥ एते शब्दाः स्त्रियां ङन्यन्ताश्च ऊडताश्च निपात्यन्ते / नृनरयोडा नारादेशः / नारी। सखिशब्दात् सखशब्दाच बहुव्रीहेमः / सखी / सह खेन वर्तते या साऽपि सखी / निपातनसामर्थ्याद् धवयोगेऽपि भवति / सख्युः स्त्री सखी / पङ्गशब्दात् अजातावू / पङ्गः / श्वशुरशब्दाच जातिलक्षणे धवयोगलक्षणे च ङीप्रत्यये प्राप्ते, उकाराकारयोर्लोपश्च। श्वश्रूः। 488 यूनस्तिः / / 2 / 4 / 77 // युवनशब्दात् स्त्रियां तिः स्यात् / नकारान्तत्वात् ङीप्रत्यये प्राप्ते तदपवादो योगः / युवतिः / युनीत्यपि कश्चित् / न तच्छिष्टसंमतम् / कथं युवती / यौतेरौणादिककिदतिप्रत्ययान्तात् ‘इतोऽक्त्यर्थात् , इत्यनेन डीभविष्यति / मुख्यादित्येव / अतियूनी / नि!नी / ___489 अनार्षे वृद्धेऽणिो बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः॥२।४।७८॥ अनार्षे वृद्धे विहितौ यावणिजौ प्रत्ययौ तदन्तस्य सतो वहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्त्यस्य स्त्रियां ष्य इत्यादेशः स्यात् / गुरुग्रहणादनेकव्यंजनव्यवधानेऽपि भवति / गुरुग्रहणं दीर्घपरिग्रहणार्थ, सयोगपरिग्रहार्थ च / अन्यथा दीर्वोपात्न्यस्येत्युच्येत / करीषस्येव गंधोऽस्य करीपगधिः, तस्यापत्यं स्त्री, अण् / तस्य