________________ 104 सिद्धहैमबृहत्पक्रिया [स्त्रीमत्यय एवं क्षत्रियी / धवयोग एवायं विधिरिति कश्चित् / तन्मते अर्थस्य भार्या अर्याणी, अर्या / क्षत्रियाणी, क्षत्रिया / धवयोगादन्यत्र अर्या, क्षत्रियेत्येव भवति / 478 यत्रो डायन् च वा // 2 / 4 / 67 // यञ्प्रत्ययान्तात् स्त्रियां ङीः स्यात्, तत्संनियोगे डायन् चान्तो वा / गाायणी। डायनागमाभावपक्षे ङयामकारस्य लुकि, व्यंजनात्तद्धितस्येति तद्धितयकारस्यच ड्यां लुक् / गार्गी / 479 लोहितादिशकलान्तात् // 2 / 4 / 68 // लोहितादिभ्यः शकलान्तेभ्यो यजन्तेभ्यः स्त्रियां ङीः स्यात् , तत्संनियोगे डायन् चान्तः / लौहित्यायनी / सांशित्यायनी / कात्यायनी / शाकल्यायनी / 480 षावटाद्वा // 4 // 69 // षकारान्तानाम्रोऽवटशब्दाच यजन्तात् स्त्रियां वा ङीः स्यात , तत्संनियोगे डायन् चान्तः। पौतिमाष्यायणी। पोतिमाष्या। आवट्यायनी। आवट्या।। 481 कौरव्यमाण्डूकासुरेः॥ श४७० // एभ्यः स्त्रियां डीः स्यात् , तत्संनियोगे डायन् चान्तः / कौरव्यायणी / माण्डूकायनी / आसुरायणी / 482 इत्र इतः 2 / 4 / 71 // इञ्प्रत्ययान्तानाम्न इकारान्तात् स्त्रियां डीः स्यात् / सुतंगमेन निवृत्तेति इत्रि सौतंगमी / इत इत किम् / इञआदेशात् ष्यान्मा भूत् / वराहस्यापत्यं वाराह्या / 483 नुर्जातेः॥रा४७२॥ नुर्मनुष्यस्य या जातिस्तद्वाचिन इकारान्तानाम्नः स्त्रियां ङीः स्यात् / अवन्तेः कुन्तेश्चापत्यमिति व्यः / तस्य लोपे अवन्ती / कुन्ती। इत इत्येव / विशोऽपत्यमित्य, तस्य च लोपे विट् / नुरिति किम् / तित्तिरिः। जातेरिति किम् / निष्कौशांविः कन्या / 484 उतोऽप्राणिनश्चायुरज्ज्वादिभ्य ऊङ् / / २।४।७३॥उकारान्तान्नृजातिवाचिनोऽप्राणिजातिवाचिनश्च नाम्नः स्त्रियामूङ् प्रत्ययः स्यात् , युशब्दान्तं रज्ज्वादिश्च वर्जयित्वा / कुरूः / ब्रह्मबन्धूः / अलाबूः। ब्रह्मा बन्धुरस्या इत्यत्रोङः पूर्व 'शेषाद्वे' ति समासान्तः कच् परोऽपि न भवति / तत्र बहुलाधिकारात् / उत इति किम् / विट् / वधूः / ऊङि सति वधूमतिक्रान्ताऽतिवधरित्यत्र इस्वः स्यात् यथा अतिब्रह्मबंधुरित्यत्र / अपाणिनश्चेति किम् / आखुः / जातेरित्येब / पछुः / अयुरज्ज्वादिभ्य इति किम् / अध्वर्युः स्त्री। चरणत्वाज्जातिः। रज्जुः। हनुः /