________________ दत्वविधिन बाधते, ततश्च यत्र संयोगान्तलोपः स्यात्तत्र क्वसः सन्तत्वं व्यभिचरतोति सिति विशेषणस्य सार्थकत्वेन विद्वान् हे विद्वन् इत्यादौ नकारस्य प्राप्नुवतो दविधेरभवनं सिद्धम् / अन्यथा विद्वान् हे विद्वन् इत्यादावपि क्वस्वन्तत्त्वसद्भावादत्रापि दत्वं प्रासंक्ष्यदेव // 41 // बलवन्नित्यमनित्यात् // 42 // यत् यस्मिन् कृते अकृतेऽपि च प्राप्नोति तत् तदपेक्षया नित्यम् यत्तु अकृते प्राप्नोति नतु कृते तदनित्यम् / तयोर्युगपत्प्राप्तौ नित्यं कार्यमनित्याद् बलवदिति प्रथमं प्रवर्तते। यथा अकाटेत्यादौ 'धुइह्रस्वाल्लुगनिटोः // 4370 // इति सिज्लुकः प्रथमं नित्यत्वात् 'सिचि परस्मै समानस्याङिति' // 4 // 3 // 44 // इत्यनेन वृद्धिः स्यात् पश्चाच ह्रस्वाभावान्न सिज्लुक् / ज्ञापकमस्य 'नामिनोऽकलिहलेः' // 4 // 3 // 51 // इत्यत्र कलिहलिवर्जनोपायकरणम्। तद्धि कलिहलिशब्दयो? प्रथमत एव 'त्रन्त्यस्वरादेः' // 74|43 // इत्यनेन इकाररूपस्यान्त्यस्वरस्य लुग भवतु नित्यत्वादेतन्न्यायेन बलवत्त्वात् ; परं पदुलध्वादिशब्दानां तु णावनित्यामप्यन्त्यस्वरस्य वृद्धिं कृत्वैव नित्याप्यन्त्यस्वरादिलक कार्या न त्वन्यथेति व्यवस्थापनार्थ कृतम् / तदेवं पटवादीनां प्रथमतो वृद्धरेव संपादनार्थ यत् कलिहलिवर्जनोपायः सूरिभिः कृतस्तदेवंकरणाभावे नित्यत्वादेतन्न्यायेन वलवत्वादन्त्यस्वरादिलुक एव सर्वत्र प्रथमं भवनमाशंक्य तन्निवारणार्थमेव / यदि त्वेष न्यायो नाभविष्यत्तहिं अन्त्यस्वरादिलुको बलवत्त्वशंकाया अप्यभावान्नानिष्टार्थेति न्यायेन यथाशिष्टप्रयोगं सर्वाण्यपि रूपाण्युपायं विनाऽप्यसाधयिष्यन्त / सत्यप्येवं सूरिभिः पट्वादिषु प्रथमं वृद्धर्व्यवस्थापनार्थ कलिहलिवर्जनोपायो यत्कृतः स एतन्न्यायज्ञापक एवेति / अनित्यश्चायम् / नित्यादन्तरङ्गमित्यायैर्वाध्यमानत्वात् // 42 // अन्तरङ्गं बहिरङ्गात् // 43 // . बलवदिति शेषः / एवमुत्तरत्रापि / यथा त इन्द्रमित्यत्र जस इत्वे कृते 'समानानां तेन० // 1 / 2 / 1 // इति इन्द्रेकारेण सह जस इकारस्य प्राप्तात् पदद्वयापेक्षत्वेन बहिरङ्गाद् दीर्घात्पूर्वम् 'अवर्णस्येवर्णादिना० // शश६ // इत्येत्वमेव स्यात् एकपदाश्रितत्वेन अन्तरङ्गत्वात् / ज्ञापकमस्य 'वृत्त्यन्तोऽसषे' // 1 / 2 / 25 // इति निर्देशः। अत्र हि वृत्त्यन्तशब्दपुरःस्थस्य रोः उत्वे कृते पूर्वेण सह ओत्वं पुरःस्थेन असषे इत्यकारेण सह वत्वं च पाप्तम् , तत्र पदद्वयाश्रितत्वाद् बहिरङ्गं वत्वं बाधित्वा एकपदापेक्षत्वादन्तरङ्गमोत्वं यनिर्दिष्टं तदेतन्न्यायबलादेवेति / अनित्याऽप्यम् / वार्णात्प्राकृतम् , लुबन्तरङ्गेभ्यः, अन्तरङ्गाच्चानवकाशम् , इत्याधैर्बाध्यमानत्वात् // 43 // निरवकाशं सावकाशात् // 44 // ___ अल्पविषयं कार्य बहुविषयात् कार्याद् बलवदिति तद् बाधित्वा स्वयं प्रवतंत इत्यर्थः / यथा वृक्षैः इत्यादौ परमपि 'एबहुस्भोसि' // 1 / 4 / 4 // इति