________________ 1185 इति भूतकाले विहितः क्विप् ब्रह्महा इत्यादौ प्रागुक्तान् 'कर्मणोऽण् ' // 51 // 72 // इत्यणं 'ब्रह्मादिभ्यः' // 5 / 1185 // इति टकं 'हनो णिन्' // 5 / 1 / 160 // इति णिनं च बाधते न तूत्तरस्थं 'क्तक्तवतू' // 5 / 1 / 174 // इति क्तवतुम् / तेन भूतेऽर्थे ब्रह्म हतवान् इति स्यादेव / अस्य च ज्ञापकमीहक्प्रयोगा एव / अस्यानित्यत्वं तु न ज्ञायते // 38 // यं विधि प्रत्युपदेशोऽनर्थकः स विधि द्धयते // 39 // उपदेशः कथनं प्रवर्तनमिति यावत् / यस्य सूत्रस्य यत्र प्रवर्तने किंचित् फलं नास्ति तत्सूत्रं तत्र बाध्यते-न प्रवर्त्यत इत्यर्थः / लोके निष्फला अपि मेघवृष्टयादयो दृश्यन्ते व्याकरणे तु तथा निषेधनार्थोऽयं न्यायः। यथा 'तनित्यजियजिभ्यो डट' ( उणादि० 895) इति डट्प्रत्यये तद् , त्य, इत्यादीनां सिद्धौ पुनर्दस्य 'धुटस्तृतीयः' // 21 // 76 // इति दविधिनिष्फलत्वान्न भवति / शापकमस्य तादृग्रूपसिद्धिरेव // 39 // यस्य तु विधेनिमित्तमस्ति नासौ विधि द्धयते // 40 // निमित्तं प्रयोजनं फल मित्यर्थः। यथा तच्चारु इत्यादौ दस्य तृतीयविधिः क्रियत एव न तु बाध्यते निमित्तसद्भावात् / तथाहि 'धुटस्तृतीयः' इति दत्वस्य असदधिकारविहितत्वेन 'चजः कगम्' // 2 // 1 // 86 // इति परकायें कर्तव्येऽसत्त्वात् तत्स्थाने 'तवर्गस्य श्चवर्ग० // 13 // 60 // इति कृतं जत्वमप्यसदभूत् , तलश्च तत्स्थाने 'अघोषे प्रथमः // 13 / 50 // इत्यनेन विहितं चत्वमप्यसदेव / तथा च गत्वकत्वाभवनात् तक् चारु इत्यनिष्टं नाभूत् / दस्य पुनर्दत्वाकरणे तदसत्त्वाभवनेन कत्वगत्वयोरिणमशक्यमेव / अस्यापि ज्ञापकमीदृक्प्रयोगा एव // 40 // येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः // 41 // येन विधिना न अप्राप्ते-अवश्यं प्राप्तमेव तस्मिन् सति यो विधिरारभ्यते स तस्यैत बाध्यविधेर्बाधकः भवति, न तु यस्य क्वचित् प्राप्तिमतः क्वचिच्चाप्राप्तिमतो बाध्यविधेः। प्राप्त्यप्राप्तिमतोऽपि बाध्यस्य बाधकत्वे प्राप्ते तनिषेधा र्थोऽयं न्यायः / यथा ' स्रस्ध्वंस्०' // 2 // 1 // 68 // इति दत्वं विद्वत्कुलं स्वनडुत्कुलमित्यादी अवश्यं प्राप्तिमतः 'सोरुः // 221172 // इति रुत्वस्य 'होधुद पदान्ते' // 2 // 182 // इति ढत्वस्य च बाध्यविधेरेव बाधकं भवति, नतु विद्वान् , है विद्वन् , अनड्वान् , हे अनड्वन्' इत्यादौ प्राप्तिमतः विद्वत्कुलं स्वनडुत्कुलमित्यादौ चाप्राप्तिमतः 'पदस्य' // 21179 // इति संयोगान्तलोपस्य बाध्यविधेरपि बाधकम् / ज्ञापकमस्य 'संस्ध्वंस्०' इत्यत्र क्वसः सिति विशेषणम् / यदि हि दत्वविधायकमिदं बाधकं सोरुत्वं यथा बाधते तथैव संयोगान्तलोपमपि वाधेत तर्हि वसः सन्तत्वं न क्वापि व्यभिचरतीति किमर्थ सिति विशेषणं क्रियेत / एतदेव ज्ञापयति यत् संयोगान्तलोपं प्राप्त्यप्राप्तिमन्तमयं 149