________________ 1187 एत्वं बाधित्वा 'भिस् पेस्' // 1 / 4 / 2 // इत्येव प्रवर्तते निरवकाशत्वादल्पवि. षयत्वाच्च / एबहुस्भोसीत्यस्य तु वृक्षेभ्यः इत्यादौ सावकाशत्वं बहुविषयत्वं च स्पष्टमेव / भिस ऐस् इत्यस्य भिस्येव विषयः, एबहुस्भोसीत्यस्य तु भिसि भ्यसि चेति अल्पविषयबहुविषयत्वे स्पष्टे एव / ज्ञापकमस्य 'भिस ऐस्' इति. सूत्रमेव / एतन्न्यायाभावे वृक्षः इत्यादावपि यदि एबहुस्भोसीत्येवं स्यात्तर्हि भिस ऐस् इति सूत्रं नैव कुर्यात् अवकाशाभावात् / अनित्यत्वमस्य न दृश्यते // 44 // वाणोत् प्राकृतम् // 45 // वर्णमुच्चार्य विहितात् वार्णात् कार्यात् प्रकृति धातुरूपामेव न तु नामरूपा. मुच्चार्य यत्कार्यमुक्तं तद् बलवदित्यर्थः / अन्तरङ्गं बहिरङ्गादित्यस्यापवादोऽयम् / यथा ऊवतुः, ऊवुः इति वेंग् तन्तुसन्ताने इत्यस्य परोक्षायां 'यजादिवचे' // 4 / 1 / 79 // इति वृति द्वित्वे च कृते उकारद्वयावस्थाने सति ' अन्तरङ्गं बहिरङ्गादिति न्यायं बाधित्वा एतन्न्यायेन बहिरङ्गोऽपि 'धातोरिवर्ण० // 2 // 1 // 50 // इत्युवेव प्रथमं भवति धातुरूपप्रकृतेर्नाम गृहीत्वा विहितत्वेन प्राकृतत्वात् / तत्पश्चादेवान्तरङ्गमपि 'समानानां तेन०' // 21 // इति दीर्घत्वं समानरूपवर्णमुच्चार्य विहितत्वेन वार्णत्वात् / एतन्न्यायाभावे अन्तरङ्गं वहिरङ्गादिति न्यायेनान्तरङ्गे दीर्धे प्रथमं कृते पश्चाच्च धातोरिवर्णेत्युवि उवतुः उवुरित्याधनिष्टमेवापद्येत / ज्ञापकमस्य. 'अन्तरङ्गं बहिरङ्गात् ' इति न्यायेन प्रसक्तानाम् उवतुः उवुरित्याधनिष्टरूपाणां निषेधनार्थ यत्नाकरणमेव / अनित्यश्वायम् / उत्तरन्यायेन वाध्यमानत्वात् // 45 // स्खद् खदाश्रयं च // 46 // ___ वार्णमपि वृदू य्वृदाश्रयं च कार्य प्राकृताद् बलवदिति भावः। यथा उपपूर्वाद् श्विधातोः क्त्वि यपि च उपशुयेत्यत्र ह्रस्वान्तप्रकृतित्वाश्रितत्वात् प्राकतमपि 'हस्वस्य तः पित्कृति' // 4 / 4 / 113 // इति तागमं बाधित्वा सस्वरोन्तस्थारूपवर्णाश्रितत्वाद् वार्णमपि 'यजादिवचेः // 4 / 179 // इति वृत्कार्य जातम् / तदन्वपि तागमं प्राकृतमपि वाधित्वा वृतो 'दीर्घमवोऽन्त्यम्' // 4 / 103 // इति दी? य्वृदाश्रितत्वेन बलवत्त्वादेवाभूत् / ज्ञापकमस्य तादृक्प्रयोगदर्शनम् / अनित्यत्वं त्वस्य न ज्ञायते // 46 // उपपदविभक्तेः कारकविभक्तिः // 47 // __बलीयसीति शेषः। षदमाश्रित्य जायमाना उपपदविभक्तिः, क्रियामाश्रित्य जायमाना कारकविभक्तिः। यथा नमस्यति देवानित्यत्र 'शक्तार्थवषड्नम:' // 2 / 2 / 68 // इति नमस्पदयोगलक्षणत्वेनोपपदविभक्तिं चतुर्थी बाधित्वा कर्मणि कारकविभक्तिद्वितीयैव क्रियायोगलक्षणा भवति बलीयस्त्वात् / ज्ञापकता त्वस्य पूर्ववदेव / अनित्यत्वं तु 'क्रुद्रुहेासूयार्थैर्य प्रति कोपः' // 2227 // इत्यत्र 'यस्मै कोपः' इत्यनिर्दिश्य 'यं प्रति कोपः' इति निर्देशात् स्पष्टमेव / नित्य