SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ 1182 कस्योपलक्षणत्वायनुबन्धकस्य च न भवति / सूत्रोक्तैकानुबन्धे शब्दे योऽनुबन्धोऽस्ति तस्य द्याद्यनुबन्धकेऽपि सद्भावात् तस्यापि ग्रहणे प्रसक्ते प्रतिषेधार्थोऽयं न्यायः / यथा 'य्यक्ये' // 1 / 2 / 25 // इत्यत्र एकानुबन्धक्यस्य वर्जनात् द्यनुबन्धके क्यनि क्यङि च अवावौ स्यातामेव / तेन गव्यति गव्यते नाव्यति नाव्यत इत्यादि सिद्धम् / ज्ञापकमस्य 'दीर्घश्वियङ्यक्क्ये' // 4 / 3 / 108 // इत्यत्र क्येष्विति बहुवचनम् / तद्धि क्यक्यनक्यक्यङामविशेषेण ग्रहणार्थम् / एतन्न्यायाभावे जातिविवक्षायामेकवचनेनापि सर्वेषां ग्रहणमायास्यतीति बहुवचननिर्देशः किमर्थः / अस्याप्यनित्यत्वम् / ' आपो डिन्तां ये यास् यास् याम् ' // 1 / 4 / 17 // इत्यत्र आप इव डापोऽपि ग्रहणात् / तेन मालायै इत्यादिवत् सीमन् शब्दाद् अपि सीमायै इत्याद्यपि सिद्धम् // 34 // - नानुबन्धकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वादीनि // 36 // अनुबन्धकृतं मिथो विसदृशरूपमसारूप्यम् अनेकस्वरत्वम् अनेकवर्णत्वं च न स्यात् / लक्षणे क्वचिदपि निषेधाभावात् प्राप्तान्यसारूप्यादीन्यनेन निषिद्धयन्ते / असारूप्यं यथा-अणो डेनासरूपत्वाभावात् ' आतोडोज्ह्वा० / // 5 / 1 76 // इति डविषये 'कर्मणोऽण् ' // 5 / 1 / 72 // इति प्राप्त: अण् ' असरूपोऽपवादे० // 5 / 1 / 16 // इत्यनेनानुमतत्वान्न भवति / अन्यथा गोदाय इत्यनिष्टं स्यात् / ज्ञापकमस्य 'कृवृषिमृजिशंसिगुहिदुहिजपो वा' // 5 // 142 // इति क्यपो विकल्पनम् / तद्धि पक्षे 'ऋवर्णव्यञ्जनाद् घ्यण् / // 5 // 1 // 17 // इत्यौत्सर्गिकध्यणर्थम् / एतन्न्यायाभावेऽनुबन्धेन क्यचोऽसरूपत्वात् 'असरूपोपवादे०' इत्यनेनैव पक्षे ध्यण् सेत्स्यतीति किमर्थं तत्कुर्यात् / अनेकस्वरत्वं यथा-धातुपाठे ' डुपचीं ' इति पठितस्यापि पच्धातोरनुबन्धवशादनेकस्वरत्वाभावेन पपाचेति परीक्षायाम् 'धातोरनेकस्वरात्' // 3 / 4 / 46 // इत्याम् न / ज्ञापकमस्य 'निन्दहिसक्लिशखाद०' // 5 / 2 / 68 // इति सूत्रे निन्दादिग्रहणम् / यदि ह्यनुबन्धकृतमनेकस्वरत्वं स्यात्तहिं धातुपाठे ‘णिदु कुत्सायाम् , हिसु हिंसायाम् ' इत्यादिपाठात् अनेकस्वरत्वेन धातोरनेकस्वरादित्यनेनैवाम् सेत्स्यतीति कुतस्तेषामाविधानाय पृथग्ग्रहणं क्रियेत / अनेक वर्णत्वं यथा-'वन्याङ्पञ्चमस्य' // 4 // 2 // 65 // इत्याङादेशस्य ङित्वेन बर्णद्वयभवनेऽपि अनुबन्धकृतानेकवर्णवत्त्वाभावाद् घुणि भ्रमणे इत्यस्मात् 'मन्वनक्वनिविच क्वचित् // 5 / 1147 // इति पनि ध्वावा इत्यत्र 'षष्ठयान्त्यस्य' // 7 / 4 / 106 // इति पञ्चममात्रस्यैवाङादेशो नतु ' अनेकवर्णः सर्वत्र' // 74 / 107 // इति सर्वादेशः / ज्ञापकमस्य करोषस्येव गन्धोऽस्य करीषगन्धिः, तस्यापत्यं स्त्री कारीषगन्ध्या, तस्याः पुत्रः कारीषगन्धीपुत्रः इत्यत्र व्याया ईजादेशविधायके 'ष्यापुत्रपत्योः केवलयोरीच्० // 2483 // इत्यत्र ष्यायाः स्थानित्वेन 'ष्यायाः ईच्' इति भेदनिर्देशे युकेऽपि ष्या इत्यस्य ईज्रूपसर्वादेशत्वार्थ व्यैव ईच
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy