________________ 1981 इतरस्य भावोऽपि दृश्यते लक्षणे तु न तथेति ज्ञापनार्थोऽयं न्यायः। अभवनं च द्वेधा। भूत्वा निवर्त्तनं मूलतोऽप्यभवनं च / तत्राचं यथा-पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः इत्यत्र 'देवता' // 62 // 101 // इत्यणि 'द्विगोरनपत्ये०' // 61 / 24 // इति तल्लुपि ‘ड्यादेगौणस्य० // 2 / 4 / 95 // इत्यनेन ङीनिवृत्तौ तत्सन्नियोगशिष्ट आनपि निवृत्तः / द्वितीयं यथा-एतान् गाः पश्येत्यत्र गोरोतः शसोऽता सह 'आ अम्शसोऽता' // 275 // इत्यात्वे कृते शसोऽकारस्याभावात् 'शसोऽता सश्च नः पुंसि' // 4 / 49 // इति दीर्घाभावे तत्सन्नियोगशिष्टं नत्वमपि न / ज्ञापकमस्य पञ्चेन्द्र इत्यादावानिवर्तनाय एतान् गाः पश्येत्यादौ नत्ववारणाय च यत्नाकरणमेव / अनित्यश्चायम् / अनेन न्यायेन यदृच्छयाऽन्यतरस्याभावे इतरदपि निवर्तत इति प्रसक्ते सति गौणनिवृत्तौ मुख्यनिवृत्तिरिति पक्षस्योत्तरेण निषेत्स्यमानत्वात् // 31 // नावाचीयमाननिवृत्तौ प्रधानस्य // 32 // अयंभावः-- अनु-पश्चाप्राधान्येन आचीयमानस्य मील्यमानस्य कार्यस्याभावे प्राधान्येन विहितस्य कार्यस्याभावो न स्यात् / किन्तु मुख्यस्याभावे गौणस्याप्यभाव इत्येव / पूर्वेण यदृच्छायां प्राप्तायां नियमार्थोऽयं न्यायः। यथा बुद्धीरित्यादौ पुंस्त्वाभावात् 'शसोऽता' इत्यनेन नत्वाभावेऽपि प्रधानतयोक्तत्वाद्दीर्घः स्यादेव / ज्ञापकमस्य 'शसोऽता०' इत्यत्रैव नत्वविधैः सश्च न इत्यन्वाचयार्थेन चेन निर्देशः। यतो गौणत्वेन समुच्चयस्तावदन्वाचय उच्यते / गौणत्वस्य चैतावानेव विशेषो यद् गौणस्य निवृत्तौ मुख्यं न निवर्तत इति / अनित्यत्वमस्य न दृश्यते // 32 // निरनुवन्धग्रहणे न सानुबन्धस्य // 33 // निरनुबन्ध कञ्चन शब्द सूत्रे उच्चार्य यत्कार्य विहितं तत् तस्य निरनुबन्धस्य ग्रहणे संभवति सानुबन्धस्य नेत्यर्थः / अविशेषोत्या उभयोर्ग्रहणे प्राप्ते तदपवादोऽयं न्यायः / यथा 'येऽवणे' // 3 // 2 // 100 // इत्यनेन 'तस्मै हिते' // 7 // 1 // 35 // इत्यादिविहिते निरनुबन्धे एव यप्रत्यये नासिकायै हितं नस्यमित्यादावेव नासिकाया नसादेशः स्यानतु 'सुपन्थ्यादेर्व्यः' // 6 / 2 / 84 // इत्यनेन विहिते ज्ये-नासिक्यं नगरमित्यादौ सानुबन्धयप्रत्यये / ज्ञापकमस्य 'न यि तद्धिते' इत्यत्र ये इत्यकरणम् / तथा कृते तादृशनिरनुबन्धयप्रत्ययस्य संभवात् सानुबन्धयप्रत्ययस्य ग्रहणमेतन्न्यायसत्त्वात् कर्तुं नैव शक्यते / य् इति व्यंजनमात्रोपादाने तु तादृशस्य कस्यापि प्रत्ययस्यासंभवात् एतन्न्यायाप्रवृत्तेरुभयोरपि निरनुबन्धसानुबन्धकयोर्ग्रहणं कर्तुं शक्यत इत्याशयेन खत्रे यि इति निर्देशः। 'निरनुबन्धग्रहणे सामान्येन ग्रहणमि'त्यस्यापि न्यायस्य विद्यमानत्वादनित्योऽयम् // 33 // एकानुबन्धग्रहणे न ब्यनुबन्धकस्य // 34 // कोऽर्थः। सूत्रोक्तस्यैकानुबन्धशब्दस्य ग्रहणे संभवति तत्स्वकार्य यनुबन्ध