________________ 1979 सिद्धे सत्यारंभो नियमार्थः // 26 // स्पष्टोऽर्थः। यथा दण्डीत्यादौ ‘नि दीर्घः // 1 / 4 / 85 // इति सिद्धेऽपि दीर्घ 'इन्हन्पूष०' // 1 / 4 / 87 // इति सूत्रारंभ इनादीनां शिस्योरेव दी| नान्यधुटीति नियमार्थ एव / तेन दण्डिनावित्यादौ नि दीर्घ इत्यनेनापि न दीर्घः। नैरर्थक्याशंकानिरासार्थोऽयं न्यायः। ज्ञापकमस्य पुनः सूत्रारंभ एव / अस्याप्यनित्यत्वम् / तेन पूजार्ह इत्यादौ 'लिहादिभ्यः' // 5 / 1 / 50 // इत्यनेनाचि सिद्धेऽपि 'अोऽच' // 5 // 1 // 91 // इत्यादिषट्सूत्र्यारंभस्य लिहादिप्रपञ्चार्थत्वमेव न तु नियमार्थत्वम् // 26 // धातोः स्वरूपग्रहणे तत्मत्यये कार्यविज्ञानम् // 27 // यत्कार्यं धातोः स्वरूपमुच्चार्य प्रत्यये परे सत्युक्तं तत् तत्प्रत्यये इति कोऽर्थः सर्व वाक्यं सावधारणमिति न्यायेन तस्य धातोरेव संबन्धिनि विवक्षितप्रत्यये पुरःस्थे सति स्यान्न तु नानोऽपि संबन्धिनि / तेन दुष्यन्तं प्रयुङ्क्ते दूषयतीत्यत्र यथा 'ऊद् दुषो णौ' // 4 / 2 / 40 // इत्यनेन उत ऊर्भवति तथा दोषणं दुट् , क्विप् , तां करोति ‘णिज् बहुलं' // 34 // 42 // इति णिजि दुषयतीत्यत्र न भवति / कुत इति चेत् अत्र क्विवन्तस्य दुषः क्विबन्ता धातुत्वं नोज्झन्तीति न्यायेन धातुत्वनामत्वोभयवत्त्वात् तदने विहितस्य णिजोऽपि धातुसंबन्धित्वनामसंबन्धित्वोभयोर्दर्शनात् / ज्ञापकमस्य दूषयतीत्यादौ धातुसंबन्धिनि प्रत्यये धातोरुत ऊत्वं दृश्यते न तु दुषयतीत्यादौ नामसंबन्धिनि प्रत्यये नाम्नस्तथापि 'ऊ दुषोणा' वित्यादौ विशेषणानुक्तिरेव / अनित्यत्वमस्य न ज्ञायते // 27 // नबुक्तं तत्सदृशे // 28 // अयमर्थः--नत्रा उक्तं पदं-यत्पदं नञा योगानिषिध्यते तत् सदृशमेव ग्राह्य नतु असदृशम् / यथा 'य्यक्ये // 12225 // इत्यत्र क्यप्रत्ययेन नजुक्तपदेन क्यसदृशस्य यकारादेरपि प्रत्ययत्वनियमनाद् गां नावं वेच्छति क्यनि गव्यति नाव्यतीत्यादौ अवावौ स्यातां न तु गोयानं नौयानमित्यादौ / शापकमस्य प्राग्वत् / अनित्यश्वायम् / पर्युदासे प्रवृत्तेरिव प्रसज्ये प्रवृत्त्यदर्शनात् / अतएवोक्तं-'पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत्' इति / ततश्च 'अनतो लुप्' इत्यत्र प्रसज्यनसद्भावेन अकारस्य नत्रुक्तत्वेऽपि अकारसदृशस्वरस्यैव केवलस्य ग्रहणं न किंतु विसदृशसर्वस्वराणां व्यञ्जनानां च / तेन पय इत्यादौ व्यअनान्तादपि स्यमोर्लुप् सिद्धा। एवं च निषेधमात्रपर्यवसायिनः प्रसज्यनत्रः विरुद्धोऽयं न्यायः // 28 // उक्तार्थानामप्रयोगः // 29 // येषां अर्थः अन्यैः प्रत्ययाद्यैरुक्तस्तेषां द्वितीयादिविभक्त्यादीनां प्रयोगो न कार्यः। यथा क्रियते कटोऽनेनेत्यादौ कर्मादिषु उत्पन्नः आत्मनेपदाथैः एव कर्मादयः उक्ताः इति पुनस्तदर्शनार्थ द्वितीयादि न स्यात् ततश्च परिशिष्टेऽर्थमात्रे