SearchBrowseAboutContactDonate
Page Preview
Page 1191
Loading...
Download File
Download File
Page Text
________________ 1178 न्याशयेनैव / अस्य न्यायस्य सत्त्व एव चरणानां कर्तृत्वं कर्तृत्वेऽपि मुख्यत्वं च लभ्यते नान्यथा / अस्यानित्यत्वम् / 'धातोरिवर्णावर्णस्य० // 2 // 1 // 50 // इत्यनेन शिश्रियुः, लुलुवुरित्यादौ मुख्यधातूनामिव नियौ, लुवौ इत्यादौ गौणानामपि इयुवोः कृतत्वात् / अनित्यत्वे ज्ञापकं तु 'स्यादौ वः // 2 // 1157 // इति सूत्रम् / तद्धि वसु इच्छतः-क्यनि वसूयतः, ततः विपि-वस्वौ-इत्यादौ इवर्णादेरस्वे० // 12 // 21 // इत्यनेन सिद्धेऽपि वत्वे वार्णात्प्राकृतमिति न्यायात्परत्वाच्च तद् वत्वं बाधित्वा धातोरिवर्णेत्युवेव प्राप्स्यतीति तद्बाधनार्थ कृतम् / नित्यत्वे त्वस्य वस्वौ इतरादीनां गौणधातुत्वेन धातोरिवर्णेत्यस्य प्राप्तिरेव नेति किमर्थं तद्बाधनार्थमिदमारभ्येत / अस्यैव न्यायस्य प्रपञ्चीभूतौ 'प्रधानानुयायिनो व्यवहाराः 'प्रधानानुयाय्यप्रधानम् ' इतीमौ न्यायावित्यन्यत्र विस्तरः // 23 // कृत्रिमाकृत्रिमयोः कृत्रिमे // 24 // कार्यसंप्रत्यय इति संबन्धः / कृत्रिमं परिभाषानिष्पन्नं तच्च गौणमौपाधिकत्वात् / ततोऽन्यदकृत्रिमं लोकप्रसिद्धं तच्च मुख्यमनौपाधिकत्वात् / तयोर्मध्ये कृत्रिमे कार्य कर्तव्यम् / पूर्वेणाकृत्रिमस्य ग्रहणे प्राप्ते तदपवादोऽयं न्यायः / यथा 'असहनविद्यमानपूर्वपदात् // 24 // 38 // इत्यत्र 'अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते / च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥इतिपरिभाषानिष्पन्नं कृत्रिममेव स्वाङ्गं गृह्यते न तु स्वमङ्गमवयव इति यौगिकमकृत्रिमम् / तेन दीर्घमुखा शालेत्यत्र मुखस्य शालापेक्षया लोकप्रसिद्धस्वाङ्गत्वे सत्यपि अप्राणिस्थत्वेन पारिभाषिकस्वाङ्गत्वाभावान्न ङ्गीः / ज्ञापकमस्य 'आङो यमहनः स्वेऽङ्गे च // 33386 // इत्यत्र स्वाङ्गशब्दयोर्व्यस्ताभिधानम् / इदं ह्यायच्छति पादौ मैत्रस्येत्यादावविकारो द्रवमित्यादिस्वाङ्गलक्षणे सत्यपि पदयोः स्वकीयत्वाभावात् आत्मनेपदं मा भूदित्येवमर्थम् / स्वाङ्ग इति समस्ताभिधानेत्वत्रापि स्वाङ्गलक्षणसभावादेतन्न्यायबलादात्मनेपदमभविष्यदेव / अस्यानित्यत्वमुत्तरत्र ज्ञापयिष्यते // 24 // कचिदुभयगतिः // 25 // अयमर्थः-क्वचित् कृत्रिममकृत्रिमं चेत्युभयं गृह्यते / पूर्वन्यायापवादोऽयम् / तेन नाडीतन्त्रीभ्यां स्वाङ्गे' // 73 // 180 // इत्यत्र बहुनाडिः कायो बहुतन्त्री ग्रीवेति कृत्रिमस्वाङ्गवृत्त्योर्नाडीतन्त्रीशब्दयोर्यथा कनिषेधस्तथा अकृत्रिमस्वाङ्गवृत्त्योर्बहुनाडिः स्तम्बो बहुतन्त्री वीणेत्यनयोरपि। ज्ञापकमस्य तत्तत्प्रयोगदर्शनमेव / अनित्यश्चायं पूर्वश्च / कृत्रिमाकृत्रिमयोः अकृत्रिमस्यैव केवलस्य क्वापि ग्रहणदर्शनात् / यथा 'शिरोऽधसः पदे समासैक्ये' // 2 // 3 // 4 // इत्यत्र पारिभाषिकं विभक्त्यन्तं पदं व्युदस्याकृत्रिमं पदशब्दरूपमेव पदं गृह्यते / यथा शिरस्पदम् , अधंस्पदमिति // 25 //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy