________________ 1177 असिद्धं बहिरङ्गमन्तरङ्गे // 21 // यत्प्रकृत्याश्रितं, पूर्व वा व्यवस्थितम् , अल्पनिमित्तं वा तदन्तरङ्गम् ; यच्च प्रत्ययाश्रितम , बहिर्वा व्यवस्थितं बहनिमित्तं वा तद बहिरङ्गम्। अन्तरङ्गे कार्ये कर्तव्ये बहिरङ्गममसिद्धमसदिव स्यात् / यथा, गिर्योरित्यादौ प्रत्ययाश्रितत्वेन बहिर्व्यवस्थितत्वेन वा बहिरङ्गस्य यत्वस्य प्रकृत्याश्रितत्वेन पूर्व व्यवस्थितत्वेन वा अन्तरङ्गे 'भ्वादे मिनो० // 2 / 1 / 63 // इति दीर्घ कर्तव्ये असिद्धत्वान्न दीर्घः / ज्ञापकमस्य 'न सन्धिङी० // 74|111 // इत्यत्र सन्धिविधित्वेन द्वित्वविधावपि स्थानिवद्भावनिषेधस्य सिद्धौ द्विग्रहणम् / तद्धि दद्धयत्रेत्यादौ धस्य 'अदीर्घाद्विरामैकव्यञ्जने' // 1 // 3 // 32 // इति द्वित्वे क्रियमाणे 'स्वरस्य परे प्राग्विधौ' // 7 // 110 // इत्यनेन यत्वादेः प्राप्तस्थानिवद्भावस्य सन्धिविधित्वेन निषेधे कृतेऽपि पुनरनेन न्यायेनासिद्धत्ववारेण प्राप्तस्थानिवद्भावनिषेधार्थ - कृतम् / अस्य न्यायस्यासत्त्वे तु स्थानिवद्भावनिषेधस्य सन्धिविधित्वेनैव सिद्धत्वात् द्विग्रहणं व्यर्थमेव स्यात् / अनित्यश्चायमुत्तरेण बाध्यमानत्वात् // 21 // न स्वरानन्तये // 22 // स्वरयोरानन्तर्ये सति अन्तरङ्गे कार्ये कर्तव्ये बहिरङ्गमसिद्धं न / पूर्वेण प्राप्तेऽतिप्रसङ्गे निषेधार्थोऽयं न्यायः। यथा इयेषेत्यादौ बहिर्व्यवस्थितत्वेन बहिरङ्गोऽपि इष्धातोर्गुणः, पूर्वव्यवस्थितत्वेनान्तरङ्गे 'पूर्वस्यास्वे स्वरे य्वोरियुवू' // 4 // 1 // 37 // इतीयादेशे कर्तव्ये नासिद्धः स्वरयोरानन्तर्यसदभावात्। ज्ञापकमस्य 'वृत्त्यन्तोऽसषे' // 1 / 1 / 25 // इति निर्देश एव / स्वरयोरानन्तर्येऽपि पूर्वन्यायेन बहिरङ्गासिद्धत्वं स्यात्तीत्र वृत्त्यन्तशब्दाग्रस्थस्य से रोः 'अतोऽति रोरुः' // // 3 / 20 // इत्यनेन कृतस्योत्वस्य पदान्तरस्थाकारसापेक्षत्वेन बहिरङ्गत्वाद् 'अवर्णस्येवर्णादिनै० // 12 / 6 // इत्यनेन प्राक्स्थिताकारेण सह ओत्वे एकपदापेक्षत्वेनान्तरङ्गे कर्तव्ये असिद्धत्वेन 'वृत्त्यन्तोऽसषे' इति निर्देशो नैव संभवेत् / अनित्यत्वमस्य तु न ज्ञायते // 22 // गौणमुख्ययोमुख्य कार्यसंपत्ययः // 23 // मुख्यस्य बलिष्ठत्वमनेन सूच्यते / यथा 'चरणस्य स्थेणोऽद्यतन्यामनुवादे' // 311138 // इति सूत्रे स्थेणोर्मुख्यकर्तुश्चरणस्येति व्याख्यातम् / संबन्धहेतूनां कारकाणां षट्संख्यत्वेन स्थेणोः करणादित्वेनापि संबन्धित्वं चरणानां संभवत्यपि 'चरणस्य स्थेणः०' इति सूत्रवृत्तौ स्थेणोः कर्तृत्वेन संबन्धिनो ये चरणा इति यद् व्याख्यातं तत्कर्तुरेव स्वातन्त्र्यात् सर्वकारकेषु मुख्यत्वेनैतन्न्यायात्कर्तु। रेव व्याख्यात्र प्राप्नोतीति बुद्धया / अपिच कर्तृत्वेन संबन्धे सत्यपि कर्ता गौणो मुख्यश्च संभवतीति अस्मान्न्यायान्मुख्यत्वभाजा क; सह संबन्ध एव समाहारः स्यान्न तु गौणत्वभाजा क; सह संबन्धे / अस्य ज्ञापकं 'चरणस्य स्थणः०' इति सामान्येनोक्तिरेव / स्थणोर्मुख्यकर्तुश्चरणस्येतीष्टेऽपि यत्तथैव नोक्तमित्येत 148