________________ . 1175 स्था इत्यादौ 'तः सौ सः' // 2 / 1 / 42 // इति से कर्तव्ये त्यदादेः सेश्व आपा व्यवधानं न / आपश्च स्त्रीलिङ्गवैशिष्ट्यजन्यत्वेन कार्ये कारणोपचारनीत्या स्त्रीलिङ्गवैशिष्टयमात्ररूपत्वविवक्षणात् / तथा च आपः एतन्न्यायेन त्यदादिनामग्रहणेनापि ग्रहणात् / ज्ञापकमस्य 'राजन् सखेः ' // 7 / 3 / 106 // इत्यत्रराजनिति नान्तनिर्देशः / स हि महती राज्ञी महाराज्ञीत्यत्र स्त्रीलिङ्गे अट्समासान्तनिषेधार्थ क्रियते / यदि न चेन्न्यायोऽयं राजसखेरिति निर्देशन महाराज्ञीत्यत्र राज्ञीत्यस्य भिन्नशब्दत्वेन प्राप्तिरेव नेति कुतस्तनिषेधार्थ नान्तनिर्देशः क्रियेत / अनित्योऽप्ययम् / तेन 'सर्वादिविष्वग्देवाडऽद्रिः // 22 // 122 // इति डद्रिविषूचीशब्दान्न भवति / अन्यथा विषूचयङ् इत्यनिष्टमेव रूपं स्यात् / शब्दभेदादर्थभेदाच्चाप्राप्तस्य ग्रहणस्य प्रापणार्थोऽयं न्यायः / एवमुत्तरोऽपि // 17 // प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम् // 18 // यस्माच्छब्दाद् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः, सा चात्र साम. * धातुरूपैव, यङ्लुबन्तत्वस्यान्यत्रासंभवात् / एवमुत्तरत्रापि / यस्य धातोः केवलस्य यत्कार्यमुक्तं तत्तस्य यत्तुबन्तस्यापि स्यात् / तेन प्रणिदत्ते इत्यत्र केवले दागि परे यथा ' नेमादा० // 2 / 3 / 79 // इत्यनेन णत्वं तथा प्रणिदादेति इति यङ्लुबन्तेऽपि। ज्ञापकमस्य 'एकस्वरादनुस्वारेतः' // 4 / 4 / 56 // इति बृहत्सूत्ररचनम् / तथाहि अनुस्वारेतस्तावद् कृगादिधातवः, ते च सर्वेऽप्येकस्वरा एव, न त्वनेकस्वरः कचिदपीति एकस्वरादित्यस्य व्यवच्छेद्याभावात् कर्तेत्यादाविनिषेधार्थम् ' अनुस्वारेतः ' इत्येतावतैव सूत्रेण भाव्यम् / न चैतावत्येव सूत्रे अवधीदित्यत्रापीड्निषेधः प्रसज्यतेति बृहत्सूत्ररचनमावश्यकमेवेति वाच्यम् / तत्रेनिषेधनिवृत्त्यर्थमवधानुस्वारेत इत्येव सूत्रेऽपि सुनिर्वाहात् / सत्येप्येवं बृहत्सूत्ररचनमिदं तदैव सार्थकं स्याद्यदि न केवलमेक एव हनादेशवधधातुरदन्तत्वादनेकस्वरः स्थानिवद्भावाच्चानुस्वारेत् संभवति, किन्त्वन्येऽपि बहवो धातवोऽनेकस्वरानुस्वारेतः संभवन्ति / तादृशाश्च बहवो धातवस्तदैव संभवेयुर्यदि कृगादीन् यङ्लुबन्तीकृत्यैष न्यायः स्फोर्यते / तद्यथा-कृधातुर्यङ्लुवन्तत्वे चर्क इत्यादिरूपत्वादनेकस्वर एतन्न्यायस्फोरणादनुस्वारेच्चेति / ततश्च चर्करितेत्यादाववधोदित्यादावपि चेनिषेधनिवृत्त्यर्थमेवं बृहत्सूत्रं कर्तव्यमेव / अनित्त्यश्चायमग्रेतनन्यायेन बाध्यमानत्वात् // 18 // तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च // एकस्वरनिमित्तं च पञ्चैतानि न यलुपि // 19 // __ निर्दिष्टमित्यस्य प्रत्येकं संबन्धात् तिवादिनिर्दिष्टमेकस्वरशब्दमुच्चार्य च विहितं कार्य विवक्षितधातोर्यङ्लुपि न / पूर्वेणातिप्रसङ्गे निषेधार्थोऽयं न्यायः / तत्र तिवा निर्दिष्टं द्वेधा / अलुप्तेन लुप्तेन च / अलुप्तेन यथा-' न कवतेर्यङः ' // 4 / 1 / 47 // इति कस्य चत्वनिषेधः / अयं कोक्यते इत्यादौ स्यानतु HEETHERE