________________ 1174 दीनां ग्रहणसंभवात् पृथगुपादानं निष्प्रयोजनमेव / अनित्यश्चायम् / अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्तीति न्यायेन बाध्यत्वात् / अनित्यज्ञापकं तु 'संख्याडतेश्चाशत्तिष्टे कः // 6 / 4 / 130 // इत्पत्र डत्यन्तानां 'डत्यतु संख्यावत् // 1 / 1 / 39 // इत्यन संख्यावत्करणात् संख्याशब्देन ग्रहणे सिद्धेऽपि पृथग् ग्रहणम् / तद्धि त्यन्तानां वर्जने डत्यन्तानामपि वर्जनं प्रसङ्ख्यतीत्याशंकया क्रियते। यदि नित्यत्वमस्य स्यात्तर्हि डतौ तेरनर्थकत्वेन त्यन्तवर्जने डत्यन्तवर्जनस्य प्रसङ्ग एव नास्तीति किमर्थ तच्छङ्कया डतिं पृथग् गृह्णीयात् // 15 // - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् // 16 // लक्ष्यतेऽनेनेति लक्षणं लिङ्गम् , तदाश्रित्योक्तो विधिरप्युपचाराल्लक्षणम् : पदं पदं प्रति उक्तः प्रतिपदोक्तः। अर्थात् यत्सामान्येन लिङ्गमात्रं निर्दिश्य विहितं तल्लक्षणं, यच्च नामग्राहं विहितं तत् प्रतिपदोक्तम् , तत्रोभयोर्ग्रहणे प्रसक्ते प्रतिपदोक्तमेव ग्राह्यं नतु लक्षणेन चरति लाक्षणिकमिति / यथा 'नोऽप्रशानोऽनुस्वारा०' // 1 / 3 / 8 // इत्यत्र लाक्षणिकनकारस्याग्रहणात् त्वन्तत्रेत्यादौ नस्य सो न / अत्र च नकारस्य वल्ल्यादिच्छन्नदेशे ककुदं दृष्ट्वा गवाऽत्र भाव्यमितिवत् तकारं पुरो दृष्ट्वा तकारस्यानुनासिकेन नकारेणात्र भाव्यमिति युक्त्या लक्षणाच्चिह्नादागतत्वेन लाक्षणिकत्वात् / प्रतिपदोक्तनस्य तु सः स्यादेव / यथा भवाँस्तत्र / अत्र नस्य 'नो नोऽन्त ' इति नकारमेवोक्त्वा विहितत्वेन प्रतिपदोक्तत्वम् / ज्ञापकमस्य 'एकार्थ चानेकं च' // 3 / 1 / 22 // इत्यनेनैव सिद्धे 'आसन्नादूरा०' // 3 / 1 / 20 // इत्यादिप्रतिपदोक्तबहुव्रीहिविधानम् / तेन आसन्ना दश येषां ते आसन्नदशाः इत्यादवेव डः, नतु एकार्थमितिसूत्रनिष्पन्ने बहुव्रीहौ-प्रिया दश येषां ते प्रियदशानः इत्यादौ / अस्याप्यनित्यत्वम् / 'ह्रस्वस्य गुणः' // 1 / 4 / 41 // इत्यत्र प्रतिपदोक्तवल्लाक्षणिकस्यापि ह्रस्वस्य ग्रहणात् / यथा हे कर्तः इत्यत्र ‘णकतृचौ' // 5 / 1 / 48 // इतिविहिततृरूपप्रतिप्रदोक्तहस्वस्य गुणस्तथैव 'निर्गतः कौशांब्यास्तत्संबुद्धौ हे निष्कौशांबे, इत्यत्र 'गोश्चान्ते० ' // 2 / 4 / 96 // इत्यनेन ह्रस्व इति सामान्योक्त्या कौशांवीशब्दे ईकारं स्थानिनं दृष्ट्वा तस्य स्वकीय इकारः ह्रस्वः स्यादित्यनया युक्त्या लक्षणाञ्चिह्नादेवागतत्वेन ह्रस्वस्य लाक्षणिकत्त्वेऽपि गुणः / अत्र च केचिदिममप्यर्थं स्वीकुर्वन्ति-लक्षणेन व्याकरणेन निष्पन्नं लाक्षणिकमव्युत्पन्नं प्रतिपदोक्तमिति / सोऽपि पूर्वोक्तव्याख्ययैव संगृह्यते // 16 // नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् // 17 // अयं भावः-नाममात्रनिर्देशे स्त्रीत्वादिलिङ्गविशिष्टमपि नाम गृह्यते / यथा 'त्यदामेनदेतदो० // 2 / 1 / 33 // इत्यत्र त्यदामिति नाममात्रनिर्देशेन त्यदाद्यधिकारे सर्वत्र स्त्रोत्वादिविशिष्टानामपि त्यदादीनां ग्रहणम् / तेन सा