SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ 1171 स्पष्टोऽर्थः / यथा 'यमिरमि० // 4 / 2 / 55 // इत्यादिना नलोपे प्रणिहत इत्यादावेकदेशविकृतस्येव ‘ने मादापतपद' // 2 // 3 // 79 // इति णत्वं तथा प्रणिघ्नन्तीत्यत्र हनेः अनेकदेशविकृतत्वेऽपि अनन्यवद्भावात् तस्मिन् परे णत्वं सिद्धम् / न च प्रन्योहनेश्च योगे जाते एव नेर्णः करिष्यत इति कथमेतन्न्यायावकोश इति वाच्यम् / 'णषमसत्परे // 2 // 60 // इति वचनेन त्याद्युत्पत्त्यादि. परकार्ये कर्तव्ये णत्वशास्त्रस्यासत्त्वेनाप्रवृत्तेः। ज्ञापकमस्य पूर्वन्यायबीजत्वमेव // 8 // भूतपूर्वकस्तद्वदुपचारः // 9 // इदमस्य तात्पर्यम्-यः प्राक् तथा भूत्वा संप्रत्यन्यथाभूतः स उपचारेण . प्राच्यावस्थावानिव व्यवह्रियते / तेन प्रण्यहन्नित्यादौ साक्षाद् हनाविव प्रण्यवधीदित्यादौ हनादेशवधेरपि भूतपूर्वहन्रूपत्वोपचारात् ' नेआदा०' // 2 // 3 // 79 // इति नेणः सिद्धः / ज्ञापकमस्य 'नेमादा०' इत्यस्मिन्नेव सूत्रे हन्तेरिव वधेरपठनम् / अस्य च क्वचिदनित्यत्वम् / तेन विज्ञपय्येत्यादौ 'मारणतोषणनिशाने ज्ञश्च' // 4 / 2 / 30 // इत्यनेन कृतहस्वस्य ज्ञपेर्भूतपूर्वज्ञापिरूपत्वानुपचरणात् 'लघोर्यपि' // 4 // 3 // 86 // इत्यनेन लघूपान्त्यलक्षणो रय् सिद्धयति / अनित्यत्वे ज्ञापकं तु 'संख्यानां र्णाम् ' // 12 // 33 // इत्यत्र र्णामिति बहुवचनम् / तद्धि अष्टानामि. त्यत्र परत्वाद् 'वाऽष्टनःआ' // 1 // 4 // 52 // इत्यात्वे परत्वात् कृते नान्तत्वाभावाद भूतपूर्वनान्तादपि आमो नाम्भावार्थ कृतम्। नित्यत्वे त्वस्य बहुवचनं विनाप्येतन्न्यायेनैव व्यवहारे बहुवचननिर्देशस्य व्यर्थत्वमेव // 9 // भाविनि भूतवदुपचारः // 10 // अर्थात्-भाविनीमवस्थां भूतवदुपचर्य भाव्यवस्थासंबंधि कार्य विधीयते / तेन नृणामित्यादौ पदत्वे निष्पन्ने 'रषवर्गान्नो ण' // 2 // 3 // 63 // इति णत्वं यथा भवति तथा रवणमित्यादावपि स्याद्युत्पत्त्यनन्तरं भाविनः पदत्वस्य भूतवदुपचारेण णत्वं कृत्वैव न्यासः सिद्धः / ज्ञापकं त्वस्य 'रश्वत्' इत्यनेन पद एव णत्वविधानम् / णत्वं तावन्नृणामित्यादिपदेष्विव रवणादिनामस्वपि दृश्यते इति 'रवर्णात्' इत्यत्र पदे एव विहितम् , तेन च ज्ञायते नानां णत्वे कर्तव्य एष न्यायोऽस्तीति। अस्याप्यनित्यत्वम् / तेन अपाठीदित्यादौ कृतेऽन्यस्मिन् धातुकार्य वृद्धिस्तदुवाध्योऽट्चेति न्यायेनाटः सर्वकार्यपश्चाद्भावित्वेन पठे: स्वरादित्वे भाविन्यपि भूतवदनुपचरणाद् 'व्यञ्जनादेवे० // 4 / 3 / 47 // इति वृद्धिः सिद्धा // 10 // यथासंख्यमनुदेशः समानाम् // 11 // इदं रहस्यम्-संख्यया पकद्वयादिवचननिर्देशेन चेति प्रकारद्वयेन समानां मिथः तुल्यानां पूर्वेषामुत्तरेषां च पदानां यथासंख्य-संख्याऽनतिक्रमेणैवानुअनुकूलं देशनं-कथनं कर्तव्यम् / अयमर्थः-आद्यमाद्येन द्वितीयं द्वितीयेनेत्यादि
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy