________________ रीत्यैव योजना कर्तव्या न त्वन्यथा / यथा डेङस्योर्यातौ' इत्यादौ स्थानिनोरादेशयोश्च द्विद्विसंख्यत्वेन द्विवचनानिर्दिप्रत्वेन च यथासंख्यं योजना / एतन्यायाभावे तु डेङसिभ्यां सह यातोः प्रत्येकं योजनेत्याद्यप्याशंक्येत निषेधकाभावात् / ज्ञापकमस्य चछटठतथे इति लघुना सूत्रेण सिद्धावपि 'चटते सद्वितीये' // 1 // 37 // इति गुरुसूत्रकरणम् / तद्धि शषसानां चटतानां चैतन्न्यायाद्यथासंख्यं योजनेति ज्ञापनार्थ कृतम / चछेत्यादिनिर्देशे त यथासंख्यं योजना न स्यात् / अनित्योऽयम्। 'भुजिपत्यादिभ्यः कर्मापादाने' // 5 // 3 // 128 // इत्यत्र वचन वैषम्येऽपि यथासंख्यसद्भावात् , 'पूर्वावराधरेभ्योऽसस्तातौ०' इत्यत्र च पूर्वावराधरशब्दानां 'दिकशब्दादिग्देशकालेषु० // 12 / 113 // इति सूत्रादनुवर्त्तमानैदिग्दे. शकालैः सह संख्याया वचननिर्देशस्य तुल्यत्वेऽपि यथासंख्याभावात् / योजनाया यादृच्छिकत्वे प्राप्ते नियमनार्थोऽयं न्यायः // 11 // विवक्षातः कारकाणि // 12 // भवन्ति, न भवन्ति, अन्यथा भवन्ति चेति शेषः। तत्र अवनं-भिक्षा वास यतीत्यादौ भिक्षादेनिर्व्यापारत्वेन हेतुमात्रत्वात्तत्वतोऽकारकत्वेऽपि स्वतंत्रतया वासनादिव्यापारविवक्षया कर्तृकारकत्वम् / अभवनं-माषाणामश्नीयादित्यादौ माषादीनां कर्मत्वे सत्यपि तदविवक्षणात् संवन्धमात्रे षष्ठी। अन्यथाभवनम् ओदनः स्वयं पच्यते, असिश्छिनत्तीत्यादावोदनास्योः कर्मकरणयोरपि स्वातंत्र्यविवक्षया कर्तृत्वम् / ज्ञापकमस्य ‘स्मृत्यर्थदयेशः' // 22 // 11 // इतिसूत्रस्य नियमार्थत्वम् / यदि हि न्यायेनानेन स्मृत्यर्थदयेशामपि कर्मणः कर्मत्वस्य विवक्षावशात् वैकल्पिकत्वमानीयते तद्देव कर्मत्वविकल्पसिद्धौ ‘स्मृत्यर्थदयेश ' इति कर्मत्वविकल्पारंभस्य नियमार्थत्वमुपपद्येत, सिद्धे सत्यारंभो नियमार्थ इति न्यायात् / नियमश्वायम्-स्मृत्यर्थेति सूत्रोक्तधातूनां कर्मैव पक्षे अकर्मत्वविधानात् शेषरूपेण विवक्ष्यते नतु कारकान्तरम् / तेन मात्रा स्मृतमित्यादौ कादीनां शेषविवक्षाया अभावात् षष्ठी न / अनित्यश्चायम् / तेन संबन्धस्याकारकत्वमेव / ततश्च बहूनाभिदं वस्त्रमित्यत्र बहुशब्दात् 'बह्वल्पार्थात् // 7 // 2 // 150 // इति प्शस् न / कारकाणां मिथोऽसाधारणलक्षणत्वेन नैयत्य एव प्रसक्ते तनिषेधार्थोऽयं न्यायः // 12 // __ अपेक्षातोऽधिकारः // 13 // ___अयं भावः-अपेक्षा इष्टता, तत एवाधिकारः प्रवृत्तिमानिवृत्तिमांश्च ज्ञेयः, नतु तत्र किंचिज्ज्ञापकमपेक्ष्यम् / यथा 'णषमसत्परे स्यादिविधौ' // 2 / 9 / 60 // इत्यतः सूत्रादसत्पर इत्यधिकारो 'रान्सः' // 2190 // इतियावदनुवर्तते नोर्ध्वम्, स्यादि. विधौ चेत्यधिकारस्तु 'नोयादिभ्यः // 2 / 1 / 99 // इतियावदित्येषोऽर्थः शापकमन्तरापि सिद्धयति / ज्ञापकमस्य 'समानानां तेनदोर्घः' // 1 // 2 // 1 // इत्यत्र समानामिति निर्देशः। अत्र तावदामो नाम् ‘ह्रस्वापश्च' // 14 // 32 // इत्यमेन कृतः। स