________________ 102 सिद्धहैमबृहत्पक्रिया. [स्त्रीप्रत्यय शब्दपूर्वो यः पुष्पशब्दस्तदन्ताजातिवाचिनो नाम्नः स्त्रियां ङीः स्यात् / शंखपुष्पी। सदादिप्रतिषेधः किम् / सत्पुष्पा / काण्डपुष्पा / प्रान्तपुष्पा। शतपुष्पा / एकपुष्पा। पापुष्पा / प्रत्यक्षुष्पा / 467 असंभस्त्राजिनैकशणपिण्डात् फलात् // 2 / 4 / 57 // समादिवर्जितशब्दपर्वो यः फलशब्दस्तदन्ताजातिवाचिनो नाम्नः स्त्रियां डोः स्यात् / दासीफली / समादिप्रतिषेधः किम् / संफला / भस्त्राफला / अजिनफला / एकफला / एकान्नेच्छन्त्यन्ये / शणफला। पिण्डफला। ओषधिजातिविशेषाणां संज्ञा एताः। 468 अनमो मूकात् / / 2 / 4 / 58 // नन्वर्जितशब्दपूर्वो यः फलशद्धस्तस्तदन्ताज्जातिवाचिनो स्त्रियां ङीः स्यात् / दर्भमूली। अनत्र इति किम् / अमूलां / 469 धवाद्योगादपालकान्तात् // 2 / 4 / 59 // धवो भर्ता, तद्वाचिनोऽ कारान्ताद् योगात्-संबंधात् स्त्रियां वर्तमानात् पालकान्तशब्दवर्जान्नानो डीः स्यात् / प्रष्ठस्य भार्या प्रष्ठी / कुमायो भवो भर्ता कौमारः। तस्य भार्या कौमारी। प्रष्ठादयः शब्दा धववाचिनोऽपि योगात् सोऽयमित्यभेदोपचारेण भार्यायां वर्तन्ते / यदा तु ' तस्येदम् ' इति व्यतिरेकविवक्षा तदा तद्धितो भवति / पाष्ठी। धवादिति किम् / परिसृष्टा / प्रजाता। प्रसूता / सर्वत्र विनिलठितगर्भेत्यर्थः / अस्त्यत्र योगस्तेन विना प्रसवाभावात् , न तु धववाचि नाम। योगादिति किम् / देवदत्तो धवो, देवदत्ता भार्या स्वत एव, न तद्योगात् / अपालकान्तादिति किम् / गोपालकस्य भार्या गोपालिका / आदित्येव / सहिष्णोर्भार्या सहिष्णुः / कथं ज्येष्ठस्य भार्या ज्येष्ठा, एवं कनिष्टा मध्यमा ? / अजादिपाठात् / . 470 पूतक्रतुषाकप्याग्नकुसितकुमिदादै च ॥श४६० // एभ्यो धवनामभ्यस्तद्योगे स्त्रियां वर्तमानेभ्यो डीः स्यात्, तत्संनियोगे ऐकारश्चान्तादेशः / पूतक्रतोर्भार्या पूतकतायी / एवं वृषाकपायी, अग्नायी, कुसितायी, कुसिदायी / योगादित्येव / पूताः क्रतवो यया सा पूतक्रतुः / एवं वृषाकपि म काचित् / ___ 471 मनोरौ च वा // 2 / 4 / 31 / / मनोर्धवनाम्नस्तद्योगात् स्त्रियां वर्तमानान्डीर्वा स्यात् , तत्संनियोगे औकार ऐकारश्चान्तादेशः / मनोर्भार्या मनावी, मनायी, मनुः।