________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. मभिधेयायामन्तर्वच्छब्दाद् डीरस्य चान्तर्वत्नादेशो निपात्यते / निपातनादेव च अधिकरणप्रधानादप्यन्तःशब्दान्मत्वर्थीयो मतुर्भवति / पतिवत्नी / अन्तर्वत्नी / भार्येति किम् / पतिमती पृथिवी / गर्भिणीति किम् / अन्तरस्यां शालायामस्ति / 464 जातेरयान्तनित्यस्त्रीशूद्रात् // 2 / 4 / 54 // जातिवाचिनोऽकारान्तानाम्नः स्त्रियां ङीः स्यात्, न चेत् तद् यान्तं नित्यस्त्रीजातिवाची शूद्रशब्दो वा स्यात् / तत्र जातिः काचित संस्थानव्यङया, यथा गोत्वादिः। सकृदुपदेशव्यङन्यत्वे सत्यत्रिलिङ्गान्या / यथा ब्राह्मणत्वादिः। अत्रिलिङ्गत्वं देवदत्तादेरप्यस्तीति सकृदुपदेशव्यङ्यत्वे सतीत्युक्तम् / गोत्रचरणलक्षणा च तृतीया। यदाहुः 'आकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक् / सकृदाख्यातनिह्या गोत्रं च चरणैः सह ' // इति कुक्कुटी ।ब्राह्मणी ।नाडायनी / कठी। जातेरिति किम् / मुण्डा। अयान्तेति किम् / इभ्या, क्षत्रिया / गवयी, हयी, मुकयी, मनुषी, मत्सी, ऋश्यी-इति तु गौरादिपाठात् / अन्तग्रहणं साक्षात्पतिपत्त्यर्थम् / तेन वतण्डस्यापत्यं पौत्रादि स्त्रीति यज्ञ, तस्य लोपे स्थानिवद्भावेऽपि वतण्डीत्यत्र यान्तलक्षणः प्रतिषेधो न / नित्यस्त्रीजातिवर्जनं किम् / मक्षिका, यूका, खट्वा / कथं तर्हि द्रोणी, कुटी। अत्र हि शब्दयोनित्यस्त्रीत्वाभावे ऽपि द्रोणीकुटीजातेनित्यस्त्रीत्वात् प्रतिषेधः प्रामोति, नैवम् / गौरादिपाठाद् भविष्यति / शूद्रवर्जनं किम् / शूद्रा / कथं महाशूद्री आभीरजातिः? नात्रशूद्रशब्दो जातिवाची, किंतर्हि महाशूद्रशब्दः / यत्र तु शूद्र एव जातिवाची तत्र भवत्येव डीनिषेधः / महती चासौ शूद्रा च महाशूद्रेति / जातिलक्षणस्यायं प्रतिषेधः, तेन धवयोगे भवत्येव / शूद्रस्य भार्या शूद्री। आदित्येव / आखुः। मुख्यादित्येव / बहुशूकरा भूमिः / कथं सुपर्णी ? / सुपर्णशब्दस्यापि जातिवाचित्वात्, तस्य च मुख्यत्वात् / 465 पाककर्णपर्णवालान्तात् / / 4 / 5 // जातिवाचिनो नाम्नः स्त्रियां ङीः स्यात् / ओदनस्येव पाकोऽस्या ओदनपाकी / आखुकर्णी / मुद्गपर्णी / गौरिव वाला अस्या गोवाली। संज्ञा एता ओषधिजातीनाम्। आसां जातीनां नित्यस्त्रीरूपत्वाद् वचनम् / एवमुत्तरसूत्रत्रयेऽपि / जातेरित्येव / बहुपाका यवागूः / 466 असत्काण्डप्रान्तशतैकाश्चः पुष्पात् / / 2 / 4 / 56 // सदादिरहित