________________ सिद्धहैमबृहत्पक्रिया. [स्त्रीप्रत्यय शाङ्गरजग्धी, शाङ्गरजग्धा / आच्छादग्रहणं किम् / वस्त्रच्छन्ना / अत्र पूर्वेणापि न भवति, अस्वाङ्गादित्वात् / अकृतायन्तादित्येव / कुण्डकृता / कुण्डमिता। पलाण्डुजाता / वृक्षप्रतिपन्ना / क्तादित्येव / शाङ्गरपिया / 458 पत्युनः // 2 // 4 // 48 // पत्यन्ताद् बहुव्रीहेः स्त्रियां ङीर्वा स्यात्, तत्संनियोगे चान्तस्य नकारादेशः। दृढःपतिरस्या दृढपत्नी, दृढपतिः।मुख्यादित्येव। बहुस्थूलपतिः पुरी / अत्र हि पत्यन्तो बहुव्रीहिर्मुख्यो न भवति, यस्तु मुख्यः स पत्यन्तो न भवति / यदापि स्थूलश्चासौ पतिश्चेति कर्मधारये सति बहवः स्थूलपतयो यस्यामिति बहुव्रीहिस्तदापि स्थूलपत्यन्तो बहुव्रीहिर्न पत्यन्त इति न भवति / 459 सादेः // 24 // 49 // सपूर्वात् पतिशद्वात् स्त्रियां डीर्वा स्यात्, अस्य च नकारोऽन्तादेशः / पूर्वेणैव सिद्धे पुनर्वचन बहुव्रीहिनिवृत्त्यर्थम् / ग्रामस्य पतिः ग्रामपत्नी, ग्रामपतिः / सादेरिति किम् / पतिरियम् / मुख्यादित्येव / अतिक्रान्ता पतिमतिपतिः / गौणादपीच्छन्त्येव / अतिपत्नी, अतिपतिः / यदा तु पत्नीशदस्य षष्ठयन्तेन समासस्तदा राजपत्नी, शूद्रपत्नीत्यायेव भवति / ___ 460 सपत्न्यादौ // 2 / 4 / 50 // सपत्न्यादौ यः पतिशब्दस्तस्मात् स्त्रियां डीः स्यात्, नकारश्चान्तादेशः / पुनर्विधानं नित्यार्थम् / समानः पतिरस्याः, समानस्य पतिरिति सपत्नी। एवमेकपत्नी, वीरपत्नी, पिण्डपत्नी, भ्रातृपत्नी, पुत्रपत्नी-षडेते सपत्न्यादयः / समुदायनिपातनं समानस्य सभावार्थम्, पुंवद्भावप्रतिषेधार्थ च / सपत्नीभार्थः / सपत्न्या अर्थ सापत्नः। 461 ऊढायाम् // 2 / 4 / 51 // पत्युः केवलादृढायां-परिणीतायां स्त्रियां ङी: स्यात्, नकारश्चान्तादेशः / पत्नी / ऊढायामिति किम् / पतिरियं संगृहीता, अभार्या चेत्यर्थः। 462 पाणिगृहीतीति / / 2 / 4 / 53 // इतिशब्दः प्रकारार्थः। पाणिगृहीतीप्रकाराः शब्दा ऊढायां स्त्रियां ङयन्ता निपात्यन्ते / पाणिर्गृहीतोऽस्याः पाणौ वा गृहीता पाणिगृहीती / एवं करगृहीतीत्यादयः / ऊढायामिति किम् / यस्या यथाकथंचित् पाणिर्गृह्यते सा पाणिगृहीता / बहुव्रीहावेवेच्छन्त्यन्ये / 463 पतिवन्यन्तर्वल्यौ भार्यागभिण्योः॥४॥५३॥ भार्याऽविधवा स्त्री। तस्यामभिधेयायां पतिमच्छदाद् डीरस्य च पतिवत्नादेशस्तथा गर्भिण्यां स्त्रिया