________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 451 पुच्छात् // 2 / 4 / 41 // असहनविद्यमानपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां ङीव स्यात् / दीर्घपुच्छी, दीर्घपुच्छा। असहनविद्यमानपूर्वपदादेव / सपुच्छा, अपुच्छा, विद्यमानपुच्छा / - 452 कबरमणिविषशरादेः // 2 / 4 / 42 // कवरादिपूर्वात् पुच्छात् स्त्रियां नित्यं ङीः स्यात् / पुनर्विधानं नित्यार्थम् / कबरं-कबुरं-कुटिलं वा पुच्छमस्याः कबरपुच्छी / मणिःपुच्छे अस्या मणिपुच्छी / विषं पुच्छेऽस्या विषपुच्छी / शरं पुच्छेऽस्याः शरपुच्छी। 453 पक्षाचोपमादेः // 2 / 4 / 43 // उपमानपूर्वात् पक्षशदात् पुच्छाच्च स्त्रियां ङीः स्यात् / उलूकस्येव पक्षावस्या उलूकपक्षी शाला। उलूकस्येव पुच्छमस्या उलूकपुच्छी सेना। 454 क्रीतात् करणादेः // 2 // 4 // 44 // करणमादिरवयवो यस्य तस्मात् क्रीतान्तानान्नोऽकारान्तात् स्त्रियां ङोः स्यात् / अश्वेन क्रीयते स्म अश्वक्रीती। धनक्रीती / वस्त्रक्रीती / विभक्त्युत्पत्तेः पूर्वमेव कृदन्तेन समासः / मनसाक्रीती / अलुप् / करणग्रहणं किम् / मुक्रीता। आदिग्रहणं किम् / अश्वेन क्रीता। नह्यत्र करणं क्रीतान्तस्य नान्न आदिरवयवो भवति, ऐकपद्याभावात् / कथं ' सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी ' इति / धनं च सा क्रीता चेति कर्मधारयोऽयम् / करणविवक्षायामप्रयोग एव / केचित्तु धनेन क्रीतेत्यत्रावन्तत्वेनापि समासमिच्छन्ति, बहुलाधिकारात् / तदाकारान्तत्वाभावाद् ङगेन भवति / . : 455 क्तादल्पे // 2 // 4 // 45 // क्तप्रत्ययान्तानाम्नः करणादेरल्पेऽर्थे स्त्रियां डीः स्यात् / अभ्रविलिप्ती द्यौः / अल्पाभ्रेत्यर्थः / अल्प इति किम् / चन्दनानुलिप्ता स्त्री / अनल्पेन चन्दनेन लिप्तेत्यर्थः / - 456 स्वाङ्गादेरकृतमितजातप्रतिपन्नाद् बहुव्रीहेः // 4 / 46 // स्वाङ्गादेः कृतादिवर्जितात् क्तान्ताद् बहुव्रीहेः स्त्रियां डीः स्यात् / शवौ भिन्नावस्याः शंखभिनी / कृतादिवर्जनं किम् / दन्तकृता / दन्तमिता / दन्तजाता / दन्तप्रतिपन्ना 457 अनाच्छादजात्यादेवा // 2 / 4 / 47 // आच्छादवर्जिता या जातिस्तदादेः कृतादिवजितक्तान्ताद् बहुव्रीहेः स्त्रियां ङीर्वा स्यात् / शाङ्गरो जग्धोऽनया