________________ 98 सिद्धहैमबृहत्मक्रिया. [ स्त्रीप्रत्यय इति किम् / कल्याणी क्रोडा अस्याः कल्याणक्रोडा / बहुवचनमाकृतिगणार्थम् / तेन किसलयकरा, मृणालभुजेत्यादि / आदित्येव / परमशिखा / 'अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते / च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु' // इति / अविकार इति किम् / बहुशोफा / अद्रवमिति किम् / बहुकफा / मूर्तमिति किम् / बहुज्ञाना / प्राणिस्थमिति किम् / दीर्घमुखा शाला। च्युतं च पाणिनस्तदिति किमर्थम् / अप्राणिस्थादपि पूर्वोक्ताद् यथा स्यात् / बहुकेशी, बहुकेशा रथ्या। तनिभं च प्रतिमादिष्विति किमर्थम् / प्राणिस्थसदृशादपि पूर्वोक्ताद्यथा स्यात् / पृथुमुखी, पृथुमुखा प्रतिमा / कथं कल्याणं पाणिपादमस्याः कल्याणपाणिपादेत्यत्र न भवति ? स्वाङ्गसमुदायो हि न स्वाङ्गम् / बहुस्वरत्वेन वक्ष्यमाणनियमबलाद्वा न भवति / द्विपादी, त्रिपादीत्यत्र तु 'द्विगोः समाहारादिति विशेषविधानानित्यमेव ङीर्भवति। अस्वाङ्गपूर्वपदादेवेच्छन्त्यन्ये / पाणी एव पादौ यस्याः सा पाणिपादेत्यादि। 449 नासिकोदरौष्ठजवादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् // 2 / 4 / 39 // असहनविद्यमानपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः स्त्रियां ङीर्वा स्यात् / पूर्वेण सिद्धे नियमार्थमिदम् / तेन नासिकोदराभ्यामेव बहुस्वराभ्यां, ओष्ठादिभ्य एव च संयोगोपान्त्येभ्यो भवति नान्येभ्यः। तुङ्गनासिकी, तुङ्गनासिका। कृशोदरी, . कृशोदरा / बिम्बोष्ठी, बिम्बोष्ठा / दीर्घजङ्घी, दीर्घजया / समदन्ती, समदन्ता / चारुकर्णी, चारुकर्णा / तीक्ष्णशृंगी, तीक्ष्णशृंगा / मृद्वङ्गी, मृद्वङ्गा / सुगात्री, सुगात्रा / स्निग्धकण्ठी, स्निग्धकण्ठा / असहनविद्यमानपूर्वपदादित्येव / सहनासिका / अनासिका / विद्यमाननासिका / नियमःकिम् / पृथुजघना, सुललाटेत्यादौ वहुस्वरान्न भवति / कल्याणगुल्फेत्यादौ संयोगोपान्त्यान्न भवति / अङ्गगात्रकंठेभ्यो डीप्रत्ययं नेच्छन्त्येके। केचित्तु दीर्घजिह्वशद्वादपीच्छन्ति, दीर्घजिह्वी, दीर्घजिह्वा कन्येति / 450 नखमुखादनानि // 2 // 4 // 40 // असहनपूर्वपदाभ्यां स्वाङ्गाभ्यां नखमुखशब्दाभ्यां स्त्रियां डीर्वा स्यात्, असंज्ञायामेव / शूर्पनखी, शूर्पनखा / चन्द्रमुखी, चन्द्रमुखा / अनाम्नीति किम् / शूर्पणखा / संज्ञाशद्धोऽयम् /