________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 97 गुणादिति सामान्योक्तावपि केवलगुणवृत्तेः स्त्रीत्वायोगात् ततो द्रव्यवृत्तेः प्रत्ययः / पवी / पटुः / स्वरादिति किम् / पाण्डुर्भूमिः। उत इति किम् / श्वेता पटी। गुणादिति किम् / आखुः। अखरोरिति किम् / खरु रियम् / गुणमिह परिभाषन्ते यथा 'सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते / आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः // सत्वं द्रव्यं तत्रैव निविशते-तदेवाश्रयति यः स गुण इति संबंधः / द्रव्यादपैत्यपगच्छति-यथाम्रान्नीलता पीततामुपजातायाम् / पृथग्जातिषु भिन्नजातीयेषु दृश्यते / एतेन सर्वण जातिगुणो न भवतीत्युक्तं भवति / आधेय उत्पाधो यथा कुसुमयोगाद् गंधो वस्त्रे / यथा वाग्निसंयोगाद् घटे रक्तता। अक्रियाजो नित्यस्तद् यथाकाशादिषु महत्त्वादिः। तदेवं गुणस्योत्पाद्यत्वानुत्पाद्यत्वप्रकारद्वयप्रदर्शनेनोत्पायवैकपकारस्य कर्मणो व्यवच्छेदः। असत्वप्रकृतिः-द्रव्यस्वभावरहितः। अनेन द्रव्यस्य व्यवच्छेदः। 446 श्येतैतहरितभरतरोहितावर्णात्तो नश्च // 3 / 4 / 36 // एभ्यो वर्णवाचिभ्यः स्त्रियां ङीर्वा स्यात् , तत्संनियोगे तकारस्य नकारश्च / श्येनी, श्येता। एनी, एता। हरिणी, हरिता। भरणी, भरता / रोहिणी, रोहिता / लत्वे लोहिनी, लोहिता / वर्णादिति किम् / श्येता / चकारो नकारस्य डीसंनियोगशिष्टतार्थः। 447 क्तः पलितासितात् // 2 // 4 // 37 // त इति चेति चानुवर्तते / पलितासिताभ्यां स्त्रियां ङीर्वा स्यात् , तत्संनियोगे तकारस्य नादेशश्च / पलिक्नी। पलिता / असिनी / असिता। 448 असहनविद्यमानपूर्वपदात् स्वाङ्गपदक्रोडादिभ्यः।।२।४।३८॥ सहनविद्यमानव पूर्वपदं यत्स्वाङ्गं तदन्तात् क्रोडादिगणवर्जितात् नाम्नोऽकारान्तात् खियां ङीर्वा स्यात् / पीनस्तनी, पीनस्तना / अतिक्रान्ता केशानतिकेशी, अतिकेशा माला / निष्क्रान्ता केशेभ्यो निष्केशी, निष्केशा यूका / स्वडी, स्वडा वृश्चिका। अडो नाम वृश्चिकायवयवः। असहनविद्यमानपूर्वपदादिति किम् / सहकेशा / अकेशा / विद्यमानकेशा / स्वाङ्गादिति किम् / बहुयया / अक्रोडादिभ्य 13