SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्पक्रिया. [स्त्रीप्रत्यय भाजादिभ्यो दशभ्यो यथासंख्यं पक्कादिष्वर्थेषु स्त्रियां ङीः स्यात् संज्ञायाम् / भाज्यते इति भाजी पक्का चेत् / भाजान्या / गोणी आवपनं चेत् / गोणान्या / नागी स्थूला चेत् / नागान्या / जातौ तु नाग्येव / तस्याः स्थौल्याभावात् / स्थली अकृत्रिमा चेत् / स्थलाऽन्या / कुण्डी अमत्रं चेत् / कुण्डान्या / काली कृष्णा चेत् / कालाऽन्या / कुशी आयसी चेत् / कुशान्या / कामुकी रिरंसुश्चेत् / कामुकाऽन्या / कटी श्रोणी चेत् / कटाऽन्या / कबरी केशपाशश्चेत् / कबराऽन्या / जानपदशब्दादपि वृत्ताविच्छत्यन्यः। जानपदी वृत्तिः / वृत्तेरन्यत्र जानपदा मदिरा / 441 नवा शोणादेः // 2 / 4 / 31 // शोणादेर्गणात् स्त्रियां ङीर्वा स्यात् / शोणी / शोणा / एवंनामा काचित् / गुणवचनात्तत्तरेणैव भविष्यति / चन्द्रभागानद्याम् / चन्द्रभागा नाम नदी / नद्या अन्यत्र चन्द्रभागा नाम देवता / अनद्यामिति केचित् / चन्द्रभागी, चन्द्रभागा काचित् / अनद्यामित्येके / चन्द्रभागा नाम नदी / अण्णन्तानित्यं प्राप्ते विकल्पः। अनद्यां तु नित्यं ङीः। चान्द्रभागी छाया। अन्ये तु अण्णन्तादेवार्थभेदेन विकल्पमिच्छन्ति / नद्यामाप् प्रत्ययोऽन्यत्र ङीप्रत्ययः / चान्द्रभागा नदी / चान्द्रभागी वनराजिः। __442 इतोऽत्यर्थात् // 2 / 4 / 32 // इकारान्तानाम्नः स्त्रियां डीर्वा स्यात् , न चेत्तत् क्यर्थप्रत्ययान्तं स्यात् / भूमी, भूमिः। रात्री, रात्रिः / अक्त्यर्थादिति किमः कृतिः, अजननिः / कथं साती, सातिः। तिगन्ताद् भविष्यति / अन्ये तु अञ्चतिअङ्कतिअंहतिशकटिशस्त्रिशारितारिअहिकपिमुनिरात्रियष्टिभ्यः कटिश्रोणिप्रभृतिप्राण्यङ्गवाचिभ्यः क्तिवर्जितकृदन्तेभ्य इकारान्तेभ्य इच्छन्ति नान्येभ्यः / तन्मते शोभनो गंधो यस्याः सुगंधिः, सुरभिगंधिः , निर्गता कौशांब्या निष्कौशांविः, अणिः , शाणिः इत्यादिषु न भवति / क्तिमात्रवर्जनाचाकरणिअजननिज्यानिग्लानिप्रभृतिषु न प्रतिषेधः। 443 पद्धतेः // 14 // 33 // पद्धतिशब्दात् स्त्रियां ङीर्वा स्यात् / पद्धती, पद्धतिः / त्यर्थ आरंभः। 444 शक्तेः शस्त्रे // 24 // 34 // शक्तिशब्दाच्छस्ने स्त्रियां ङीर्वा स्यात् / शक्ती, शक्तिः / शस्त्र इति किम् / शक्तिः सामर्थ्यम् / 445 स्वरादुतो गुणादखरोः // 24 // 35 // स्वरात परो य उकारः साम•देकवर्णव्यवहितस्तदन्ताद् गुणवचनात् खरुवर्जितान्नाम्नः स्त्रियां ङीर्वा स्यात् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy