SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 95 भक्तिः / अक्षेत्र इति द्विगोविशेषणं किम् / काण्डस्य क्षेत्रविषयत्वेऽपि यथा स्यात् / द्वाभ्यां काण्डाभ्यां क्षेत्रसंज्ञिताभ्यां क्रीता द्विकाण्डी वडवा / नात्र द्विगुः क्षेत्रविषयः किंतर्हि काण्डशब्द इति / 435 पुरुषादा / / 2 / 4 / 25 // प्रमाणवाचिपुरुषशब्दान्तात् द्विगोस्तद्धितलुकि स्त्रियां ङगेर्वा स्यात् / द्वौ पुरुषो प्रमाणमस्या द्विपुरुषी, द्विपुरुषा वा परिखा / प्रमाणादित्येव / द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा वडवा / तद्धितलुकीत्येव / पञ्चपुरुषा रज्जुः / प्रमाणभूताः पञ्च पुरुषाः समाहृताः पञ्चपुरुषी। द्विगोः समाहारादिति नित्यमेव / 436 रेवतरोहिणाद् भे॥२।४।२६॥ नक्षत्रम् / रेवतरोहिणाभ्यां नक्षत्रशब्दाभ्यां स्त्रियां ङीः स्यात् / रेवती। रोहिणी / यदापि 'चित्रारेवतीरोहिण्याः स्त्रियाम्' इति जाता यस्याणो लुकि डीप्रत्ययस्यापि लुग भवति तदापि नक्षत्रशब्दात् पुनरनेन ङीर्भवति / रेवत्यां जाता रेवती, रोहिण्यां जाता रोहिणीति / भ इति किम् / रेवता / रोहिणा। कथं रेवतीरमणो बलः, रेवती शुष्करेवती / रेवच्छब्दो मत्वर्थीयान्तोऽस्ति / तत उदिल्लक्षणो ङीः / कथं रोहिणी कटुरोहिणी ।रोहिणशब्दः प्रकृत्यन्तरमस्ति ततो जातिलक्षणो ङीभविष्यति / ___ 437 नीलात् प्राण्योषध्योः // 2 / 4 / 27 // नीलशब्दात् पाणिनि ओषधौ च स्त्रियां ङीः स्यात् / नीली वडवा / नीली ओषधिः। प्राण्योषध्योरिति किम् / नीला शाटी। 438 क्ताच नाम्नि वा // 2 // 4 // 28 // नीलशब्दात् क्तान्ताच शब्दरूपात स्त्रियां ङीर्वा स्यात् संज्ञायाम् / नीली / नीला | प्रवृद्धा चासौ विलूना च प्रवृद्धविलूनी, प्रवृद्धविलूना। 439 केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् // 2 / 4 / 29 // एभ्यः स्त्रियां ङीः स्यात् संज्ञायाम् / केवली नामज्योतिः / मामकी। भागधेयी / पापी / अपरी / समानी / आर्यकृती / सुमङ्गली / भेषजी / नाम्नीति किम् / मामका / मामकशब्दादअन्तत्वेनैव डीः सिद्धो नाम्नि नियम्यते, तेन मामिका बुद्धिरिति असंज्ञायाम् अञ्लक्षणोऽपि डीन भवति / 440 भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात् पक्का वपनस्थूलाकृत्रिमामत्रकृष्णायसारिरंसुओणिकेशपाशे // 24 // 30 //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy