________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. 1049 यवादिविकृतिः। केचिदेनं बहुवचनान्तं पठन्ति / दारु 2 काष्ठम् / दार्वन्तत्वादेव महादादयोऽपि पुंक्लीबाः। सर्वेऽप्येते एकार्थाः। अगुरु 2 गन्धद्रव्यविशेषः। वास्तुः२ गृहभूमिः। पलाण्डुः 2 कन्दविशेषः। हिगु 2 रामठम् / शिनः 2 शोभाञ्जनम् / अथोदन्तप्रक्रम पव छन्दोऽनुसंधानात् सन्तः। दोः 2 बाहुः / तितउः 2 शूर्पम् / सीधुः 2 मेरेयम् / अथ व्यञ्जनान्ताः। भूमा 2 बहुत्वम् / वेमा 2 तन्तुवायशलाका। प्रेमा 2 स्नेहः नर्म च / ब्रह्म 2 तपः वेदः ज्ञानम् आत्मा प्रजापतिः। गरुत् 3 स्वर्ण पिच्छं च / लोम 2 तनूरुहम् / विहायाः 2 शकुनिनभश्च / कर्म 2 क्रिया व्याप्यं च / अष्ठीवान् 2 जानुः। पक्ष्म 2 अक्षिरोम तूलं च / धनुः 2 चापम् / नाम 2 संज्ञा / महिमा 2 महत्त्वम् // 36 // // इति पुंनपुंसकलिङ्गाः // // अथ स्त्रीनपुंसकाधिकारः॥ स्रोक्लोबयोनख शुक्तौ विश्व मधुकमौषधे // माने लक्षं मधौ कल्यं क्रोडोऽङ्के तिन्दुकं फले // 1 // (अव० ) शुक्तौ गन्धद्रव्यविशेषे नखशब्दः स्त्रीक्लीवलिङ्गः / नखी नखम् / विश्वमधुकनानी औषधवाचिनी स्त्रीक्लीबे / विश्वा विश्वं शुण्ठी। मधुका मधुकं मधुयष्टिः / माने संख्यायां लक्षं स्त्रीक्लीबम् / लक्षा लक्षं सहस्रशतम् / मधौ मद्ये वाच्ये कल्यशब्दः स्त्रीक्लीवः। कल्या कल्यम् / अङ्के उरसि वाच्ये क्रोडशब्दः स्त्रीक्लीबः। क्रोडा क्रोडम् / फलविशेषे तिन्दुकं स्त्रीक्लीबम् / तिन्दुकी तिन्दुकम् // 1 // तरलं यवाग्वां पुष्पे पाटलं पटलं चये।।। वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने // 2 // ( अव० ) यवाग्वां वाच्यायां तरलम् / तरला तरलम् / हारे तन्मध्यमणौ चाभरणनामत्वात् पुंस्त्वम् / पुष्पविशेषे वाच्ये पाटलम् / पाटली पाटलम् / चये समूहे वाच्ये पटलम् / पटली पटलम् / पिटकतिलकपरिच्छेदेषु लान्तत्वानपुंसकत्वम् / वृत्तविशेषे वसन्ततिलकम् / वसन्तनिलका वसन्ततिलकम् / भिक्षुभाजने वाच्ये कपालं स्त्री क्लीबम् / कपाली कपालम् // 2 // अर्धपूर्वपदो नावष्टयणकनटौ कचित् / / चोराद्यमनोज्ञाद्यकञ् कथानककशेरुके // 3 // ( अव० ) अर्घशब्दपूर्वपदोऽट् समासान्तो नौशब्दःस्त्रीक्लीबः। अर्धनावी / अर्धनावम् / ट्यण्प्रत्ययान्तं कर्तृवर्जिते कारके विहितो योऽनट्प्रत्ययस्तदन्तं च क्वचिल्लक्ष्यानुसारेण स्त्रीक्लीबम् / ट्यण् , उचितस्य भावः कर्म वा औचिती / औचित्यम् / एवं याथाकामी याथाकाम्यम् / वैदग्धी वैदग्ध्यम् / मैत्री मैत्र्यम् / 132