________________ हैमपश्चपाठी. आनुपूर्वी आनुपूर्व्यम् / इत्यादि / क्वचिद्वचनात् क्वचित्स्त्रीत्वमेव / शीलमेव शैली। क्वचित्लोबत्वमेव / शैत्यम् / एवं दाढर्यम् / जाड्यम् / ब्राह्मण्यम् / त्रैलोक्यम् / सैन्यम् / इत्यादि / अकनट् / आस्थानी आस्थानम् राजसभा / राजधानी राजधानम् स्कन्धावारः / चालनी चालनं तितउः / एवं करणी करणम् / प्रमाणी प्रमाणम् / इत्यादि / क्वचित् स्त्रीत्वमेव गुणलयनी दृष्यम् / भ्रमणी राज्ञः क्रीडा / प्रसाधनी कङ्कतिका / वेषे तु क्लीबत्वमेव / गवादनी गवां घासस्थानम् / इत्यादि / क्वचिन्नपुंसकत्वमेव / प्रधोयतेऽस्मिन्निति प्रधानम् / "प्रकृतौ तु महामात्रे प्रज्ञायां परमात्मनि / नपुंसकं प्रधानं स्यात् एकत्वे तूत्तमे सदा // 1 // साध्यतेऽनेनेति साधनं प्रमाणं तुरगादिसमूहश्च / लक्षणं लक्ष्म चिह्न नाम च / उपवर्तनं देशः। स्थानं स्थितिः सादृश्यं च। युक्तार्थे करणार्थे च स्थाने इत्यव्ययम् / केतनं 2 गृहम् / केतौ तु पुंनपुंसकम् / प्रमाण 2 सम्यक्प्रवक्ता / कारणं 2 मर्यादा मानं च / उपसर्जनं 2 गौणमित्यादयः। केचित्तु आश्रयलिङ्गभाजः / राजभोजनः शालिः / राजभोजनी द्राक्षा। राजभोजनमन्नम् / इत्यादिकाः। मनोज्ञाद्यन्तर्गणवर्जितेभ्यघोरादिभ्यो योऽकञ् प्रत्ययस्तदन्तं नाम स्त्रीनपुंसकम्। चौरिका चौरकम् / धौर्तिका धौर्तकम् / यौवनिका यौवनकम् / इत्यादि। अमनोज्ञादीति किम् / मानोज्ञकम् प्रेयरूपकम् इत्यादौ 'आ त्वात्त्वादिः' इत्यनेन क्लीवत्वमेव / चौर, धूर्त, युवन् , ग्रामपुत्र, ग्रामपण्ड, ग्रामभाण्ड, ग्रामकुमार, ग्रामकुल, ग्रामकुलाल, अमुष्यपुत्र, अमुष्यकुल, शरपुत्र, शारपुत्र, मनोज्ञ, प्रियरूप, अभिरूप, बहुल, मेधाविन्, कल्याण, आढ्य, सुकुमार, छान्दस, छात्र, श्रोत्रिय, विश्वदेव, ग्रामिक, कुलपुत्र, सारपुत्र, वृद्ध, अवश्य इति चौरादिः / अथ कान्ताश्चत्वारः। कथानिका, कथानकम्, आख्यानम् / कशेरुका कशेरुकं पृष्ठास्थि // 3 // वंशिकवक्रोष्ठिककन्यकुब्जपीगनि नक्तमवहित्थम् // रशनं रसनाच्छोठनशुंबं तुम्बं महोदयं कांस्यम् / / 4 // ( अव० ) वंशिका वंशिकम् अगुरुः। वक्रोष्ठिका वक्रोष्ठिकं स्मितम् / अथ जान्तः / कन्यकुब्जा कन्यकुब्जं महोदयाख्यो देशः। अथ ठान्तः / पीठी पीठमासनम् / नक्ता नक्तं रात्रिः / नक्तमिति मन्तमव्ययमपि। अवहित्था अवहित्थमाकारगोपनम् / रशनं रशना काञ्ची / रसना रसनं जिह्वा / आच्छोटना आच्छोटनं मृगया / शुम्बा शुम्बं रज्जुः / तुम्बी तुम्बं वल्लिविशेषः / महोदया महोदयं कन्यकुब्जाख्यो देशः। कांस्यी कांस्यं सौराष्ट्रिका / अर्थप्राधान्यात् सौराष्ट्रिका सौराष्ट्रिकमपि // 4 // 'मृगव्यचव्ये च वणिज्यवीर्यनासीरगात्रापरमन्दिराणि // तमिस्रशस्त्रे नगरं मसूरत्वक्षीरकादम्बरकाहलानि // 5 // (अव०) मृगव्या मृगव्यं पापद्धिः / चव्या चव्यं नागवल्लिमूलम् / वचायां