________________ - 1047 लिङ्गानुशासनम् ] हैमपञ्चपाठी. प्राणः। अर्थप्राधान्यात् सहोऽपि / सैन्यस्थौल्यरूपेषु तु क्लीबः। शंबलं 2 पाथेयम् / उत्पलं 2 सरोजम् / अर्थप्राधान्यात् कुबलयमपि / उपलः२ पाषाणः। शीलं 2 शद्: वृत्तं स्वभावश्च / शैलं 2 गडः / शकलं खण्डम् / अङ्गुलः अङ्गुलीयमानम् / अञ्चलं 2 वस्कदेशः। कमलः 2 पद्मम् / जले तु क्लीबः / अर्थप्राधान्यान्नाली. कमपि / मलं किट्टं पापं च / किट्टे चार्थप्राधान्यात् किट्टः किट्टम् / मुसलः 2 क्षोदनोपकरणम् / अर्थप्राधान्यात् अयोऽग्रः / शालं 2 वृक्षविशेषः / कुण्डलं 2 कर्णाभरणम् / कललं 2 शुक्रशोणितयोरीषद्घनः परिणामः। नलम् 2 अन्तःशुषिरस्तुणविशेषः / नल् गन्धे इत्यस्येदं रूपमिति कृतलत्वान्नडादस्य भेदः / निगल्यते वध्यतेऽनेनेति निगलः पादबन्धनम् / अयमपि धातुभेदे कृतलत्वान्न सिद्धयति / नोलं 2 वर्णविशेषः। मङ्गलः 2 प्रशस्तम् // 29 // काकोलहलाहलौ हलं कोलाहलकङ्कालवल्कलाः // सौवर्चलधूमले फलं हालाहलजम्बालखण्डलाः // 30 // (अव०) काकोलो 2 विषभेदः / हलाहलः 2 स एव / हलः 2 सीरः / कोलाहलः 2 कलकलः। कंकालं 2 शरीरास्थि / वल्कलं 2 वृक्षादीनां त्वक् / सौवर्चलं 2 रुचकम् / धूमलः 2 तूर्यः / फलः 2 प्रयोजनं पुष्पादिभवं च / हालाहलो 2 विषभेदः। एकदेशविकृतस्यानन्यत्वेन हालहलमपि / जम्बालः 2 कर्दमः / खण्डलः 2 खण्डम् // 30 // लाङ्कलगरलाविन्द्रनीलगाण्डीवगाण्डिवाः / / उल्वः पारशवः पार्थापूर्वत्रिदिवताण्डवाः // 31 // ( अव०) लागूलः 2 पुच्छम् / गरलं 2 विषम् / इन्द्रनीलः 2 रत्नभेदः / गाण्डीवं 2 धनुः पार्थधनुश्च / गाण्डिवं तदेव / उल्वः कललम् / पारशवः 2 शस्त्रम् / पार्श्वः 2 कक्षाधःशरीरदेशः। अपूर्व 2 धर्माधर्मी // त्रिदिवं स्वर्गः / ताण्डवं 2 उद्धतं नृत्यम् // 31 // निष्ठेवः प्रग्रीवः शरावरावौ भावक्लीवशवानि // दैवः पूर्वः पल्लवनल्वी पाशं कुलिशं कर्कशकोशौ // 32 // ( अव० ) निष्ठेवः 2 निष्ठेवनम् / अत्र यज्ञोपकरणवाचिनं पात्रीवशब्दं केचित् पठन्ति स त्वाश्रयलिङ्गः। प्रग्रीवो 2 वातायनम् / शरावो 2 वर्धमानम् / रावः 2 ध्वनिविशेषः। भावः 2 स्वभावादिः। क्लीबः 2 तृतीयाप्रकृतिः / अर्थप्राप्राधान्यानपुंसकमपि। शवो 2 मृतशरीरम् / दैवो 2 विधिः। पूर्वः 2 प्रथमता। गुणवृत्तिस्त्वाश्रयलिङ्गः / पल्लवः 2 किशलयम्। पल्लवान्तत्वात् सपल्लवो 2 वासः / नल्वो 2 हस्तचतुःशती। अथ शान्ताः। पाशो 2 बन्धनम् / कुलिशो 2 वज्रम् / कर्कशोऽमृदुत्वम् / गुणवृत्तेस्त्वाश्रयलिङ्गता। कोशो 2 भाण्डागारः कुड्मलं शपथश्च / भाण्डागारेऽर्थप्राधान्यात् गओऽपि तालव्योपान्त्यः। समानार्थः मूर्धन्योपान्त्यः कोषशब्दो वक्ष्यते // 32 //