________________ / हैम 1046 हैमपञ्चपाठी. उशीरः 2 वीरणीमूलम् / अन्धकारः 2 तमः / अर्थप्राधान्यान्नीलपङ्कदिनकेसरावपि / वरः 2 श्रेष्ठः देवतादेश्च / मनागिष्टे त्वव्ययम् / अन्ये तु क्लीबम् / केदारः 2 वप्रः / प्रवरो 2 गोत्रविशेषः हिमं च / कलीरः२ कर्कटकः / शिशिरः ऋतुविशेषः। आडम्बरं 2 करिगर्जितं पटह उद्धतवेषादिश्च / गह्वरं बिलं निकुञ्जः दंभश्च / क्षीरः 2 दुग्धम् / जले तु नपुंसकत्वम् / कोटरं छिद्रम् निष्कुहश्च / चक्रः आयुधं रथाङ्गं संघातः राष्ट्र कटकं च / स्वल्पह्रस्वयोः कपि चक्रिका दुरुद्योगः घुणावर्तश्च / चुक्रम् अम्लो रसः अम्लव्यञ्जनं च / तिमिरः 2 तमः / अङ्गारः अग्निदग्धकाष्ठशकलम् / तुषारः 2 हिमम् / शरः 2 बाणः दधिसारश्च / भ्राष्ट्रं 2 अम्बरीषः / उपह्वरः 2 उपसरः रहः समीपं च / राष्ट्रः 2 जनपदः उपद्रवश्च / तक्रम् 2 उदश्वित् / जठरम् 2 उदरम् / आर्द्रः 2 शृङ्गवेरम् / कुञ्जरः 2 गजः / पञ्जरं 2 वीतंसम् // 26 // कपरनूपुरकुटीरविहारवारकान्तारतोमरदुरोदरवासराणि // कासारकेसरकरीरशरीरजीरमञ्जीरशेखरयुगंधरवनवप्राः // 27 // ( अव० ) कर्पूरं 2 घनसारः / नूपुरो 2 मञ्जीरः / कुटीरं 2 ह्रस्वा कुटी / विहारं 2 भिक्षुस्थानं यतिचर्या च / वारः 2 परिपाटिः अवसरः समूहश्च / कान्तारो 2 महारण्यम् / तोमरं 2 शस्त्रविशेषः। दुरोदरं 2 पणः। वासरं 2 दिनम् / कासारः 2 पल्वलम् / केसरः 2 किञ्जल्कः सटा च / करीरं 2 वंशाद्यङ्करः घटश्च / शरोरः 2 कायः / जीरम् 2 अजाजीकः / जीरकोऽपि च / मञ्जीरः 2 नूपुरम् / शेखरं 2 शिरोभूषणम् / युगंधरं 2 कृबरम् / वज्रम् 2 अशनिः रत्नं च / वप्रं 2 क्षेत्रं रोधश्च // 27 // आलवालपलभालपलालाः पल्वलः खलचालविशालाः॥ शूलमूलमुकुलास्तलतैलौ तूलकुड्मलतमालकपालाः // 28 // (अव०) आलवालम् 2 आवालम् / पलम् 2 मांसं मानविशेषश्च / भालं 2 ललाटम् / पलालं 2 धान्यादेः शुष्कनालम् / पल्वलः२ कासारः। खलः२ पिण्याकः दुर्जनश्च / दुर्जने आश्रयलिङ्गोऽप्यमित्येके / चषालः 2 यज्ञपात्रम् / विशालः 2 विस्तीर्णता / गुणवृत्तेस्त्वाश्रयलिङ्गता / शूलम् 2 आयुधम् / मूलम् 2 आदिः . प्रतिष्ठा च / मुकुलं 2 कुड्मलः / तलम् 2 अधः स्वभावश्च / पृष्ठे तु लान्तत्वान्नपुंसकः / तैलं 2 तिलादिस्नेहः / तूलं 2 पिचुः / कुड्मलो 2 मुकुलः / तमालो 2 वृक्षविशेषः। कपालम् 2 शिरोऽस्थि / घटादिशकले व्रजे भिक्षाभाजने च स्त्रीक्लीबः // 28 // कवलप्रवालबलशम्बलोत्पलोपलशीलशैलशकलाङ्गुलाश्चलाः // कमलं. मलं मुशलशालकुण्डलाः कललं नलं निगलनीलमङ्गलाः // 29 // ( अव० ) कवलः 2 भक्ष्यपिण्डः / प्रवालं 2 नवकिशलयं विद्रुमश्च / बलः