________________ JAV 1.44 हैमपञ्चपाठी. [ हैमनलिनपुलिनमौना वर्धमानः समानौदनदिनशतमाना हायनस्थानमानाः॥ धननिधनविमानास्ताडनस्तेनवस्ना भवनभुवनयानोद्यानवातायनानि // 20 // ( अव०) नलिनः 2 पद्मम् / पुलिन: 2 सैकतम् / मौनो 2 वाग्यमः / वर्धमानः 2 शरावः / समानः 2 तुल्यः शरीरस्थो वायुविशेषश्च / ओदनः कूरम् / दिनो 2 दिवसः। शतं मानान्यस्य शतमानः 2 भूभागविशेष: रूप्यमानं च / हायनः 2 वर्ष: रश्मिश्च / स्थानम् 2 आश्रयः / मानः 2 दर्पः / धनो 2 द्रव्यम् / निधन: 2 विनाशः कुलं च / विमानं 2 व्योमयानादि / ताडनः 2 व्यधनम् / स्तेनः 2 चौरः चौर्य च / वस्न: 2 अवक्रयः / धनवस्त्रयोस्तु क्लीबत्वम् / भवनः गेहम् / भुवनं जगत् / यान: 2 वाहनम् / उद्यानः 2 क्रोडास्थानम् / वातायनः 2 गवाक्षः // 20 // अभिधानद्वीपिनौ निपानं शयनं लशुनरसोनगृञ्जनानि // खलिनखलीनानुमानदीपाः कुणपः कुतपावापचावमूः // 21 // (अव० ) अभिधानं 2 संज्ञा शब्दश्च / द्वीपिनं 2 व्याघ्रः / निपानं 2 आहावः / शयनं 2 शय्या / लशुनरसोनगृञ्जना 2 महाकन्दाः / खलिनं 2 खलीनं च कषियम् / अनुमानो हेतुः / अकर्बनडन्तोऽयम् / भावे तु क्लीबत्वमेव / दीपः 2 प्रदीपः। कुणपः 2 शवम् / कुतपः 2 छागरोमकृतकम्बलः दर्भः अपराह्नकालश्च / आवापो 2 वलयः / चापं 2 धनुः / शूर्प 2 धान्यादिपवनं भाण्डम् // 29 // स्तूपोडुपौ विटपमण्डपशष्पबाष्पद्वीपानि विष्टपनिपौ शफडिम्बबिम्बाः // जम्भः कुसुम्भककुभौ कलभो निमार्मसंक्रामसंक्रमललामहिमानि हेमम् / / 22 / / (अव०) स्तूपो 2 मृदादिकूटः। उडुपं 2 प्लवः। चन्द्रे तु पुंस्त्वम् / विटपः 2 तरोः स्कन्धादूर्ध्व शाखा / मण्डपो जनाश्रयः। शष्पं 2 बालतृणं प्रोक्तम् / बाष्पं नेत्रवारि ऊष्मा च / द्वीपं 2 मध्येजलं देशः / विष्टपं 2 जगत् / निपं 2 घटः। शफः 2 खुरः। डिम्बः 3 उदरान्तोऽवयवः / बिम्बं 2 प्रतिबिम्बं मण्डलं च / जम्भो जम्बीरः ! कुसुम्भं कमण्डलः महारजतं च / ककुभः वीणाप्रसेवः। कलभः 2 करिपोतः। निभो 2 व्याजः / अर्मः चक्षुरोगः / संक्रामः संक्रमश्च जलतरणविशेषः। ललानः शृङ्गं पुच्छं हयमुखेऽन्यवर्णः पुण्द्रः केतुश्च / हिमः 2 तुषारः / 2 हेभम् स्वर्णः // 22 // उद्यमकामोद्यामाश्रमकुट्टिमकुसुमसंगमा गुल्मः // क्षेमक्षौमौ कम्बलिवाह्यो मैरेयतू? च // 23 // ( अव०) उद्यमः 2 उत्साहः। कामः 2 अभिलाषः। उद्यामः 2 'उद्यमोपरमौ' इति निपातनाद् वृद्धिनिषेधेऽपि अत एव निपातनादात्वमपि / आश्रमः 2 मुनिस्थानं ब्रह्मचर्यादिश्च / कुट्टिमः संस्कृतभूमिविशेषः। कुसुमं 2 पुष्पे खीर