________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. तण्डुलाः / पुंसि बहुत्व एवायम् / दैवतः 2 देवता / वृत्तम् 2 शीलं निस्तलं च / ऐरावतः 2 सुरेन्द्रदन्ती / लोहितः 2 शोणितम् / गुणवृत्तिस्त्वाश्रयलिङ्गः। व्रतोपवीतौ पलितो वसन्तध्वान्तायुतद्यूतघृतानि पुस्तः / / शुद्धान्तबुस्तौ रजतो मुहूर्तद्वियूथयूथानि वरूथगूथौ // 17 / / ( अव० ) व्रतः शास्त्रितो नियमः। उपवीतः 2 कण्ठसूत्रम् / पलितं 2 पक्वकेशः / केशपाके कर्दमे च तान्तत्वान्नपुंसकत्वम् / वसन्तः 2 सुरभिः देवपुत्रविशेषश्च / ध्वान्तं 2 तमः। अयुतं 2 दशसहस्राणि / द्यूतः 2 दुरोदरम् / घृतम् 2 आज्यम् / पुस्तं 2 लेख्यपत्रसंघातः लेपादिकर्म च / शुद्धान्तः 2 अ. न्तःपुरम् / बुस्तं 2 पक्कमांसविशेषः / रजतो रूप्यं श्वेतं च / मुहूर्तः घटिकाद्वयम् / द्वयो!थयोः समाहारो द्वियूथः। यूथः सजातीयपश्वादिसंघातः। वरूथः 2 रथगुप्तिः / गूथः 2 विष्ठा // 17 // प्रस्थं तीर्थ प्रोथमलिन्दः ककुदः कुकुदाष्टापदकुन्दाः // गुददोहदकुमुदच्छदकन्दार्बुदसौधमथोत्सेधकबन्धौ // 18 // ( अव० ) प्रस्थः 2 मानम् / तन्मितं वस्तुमानं च / तीर्थ 2 पुण्यस्थानं जलावतारश्च / प्रोथः 2 अश्वादे?णान्तरम् / अलिन्दः 2 गृहद्वारस्था स्थलीं। ककुदः 2 कुकुदश्च श्रेष्ठं वृषस्कन्धः राजचिन्हं च / अष्टापदं 2 सुवर्ण द्यूतफलक च / अर्थप्राधान्यात् शारिफलकमपि / गिरौ शलभे कपौ चाद्रिदेहिनामत्वात् पुंस्त्री / कुन्दः 2 पुष्पविशेषः / निधिभेदमुरभिदोस्तु पुंस्त्वमुक्तमेव / चक्रभ्रमौ च बाहुलकात् पुंसि / गुदम् 2 अपानम् / दोहदः 2 श्रद्धादौ / हृदयस्य तु बाहुलकानपुंसकत्वम् / कुमुदः 2 कैरवम् / छदः 2 दलं पिच्छं च / कन्दः 2 पयोधरः सस्यमूलं च / अर्बुदो 2 दश कोट्यः / कोटिरित्यन्ये / स्थानविशेषः अक्षिरोगविशेषश्च / पर्वतविशेषे तु पुंस्त्वमेव / अथ धान्ताः / सौधः 2 राजगृहम् / उत्सेधः 2 उन्नतिः / कबन्धः शिरोरहितः कायः // 18 // श्राद्धायुधान्धौषधगन्धमादनप्रस्फोटनालग्नपिधानचन्दनाः / / वितानदाजादनशिश्नयौवनापीनोदपानासनकेतनाशनम् // 19 // ( अव० ) श्राद्धः 2 पितृकर्म / यस्तु मत्वर्थीयाणन्तः स आश्रयलिङ्गः / आयुधः प्रहरणम् / अन्धः 2 तमः / औषधो 2 भेषजम् / गन्धमादनः 2 पर्वतविशेषः / प्रस्फोटनः 2 शुर्पम् / लग्नं 2 मेषादि / पिधानं 2 संवरणम् / अपेः प्यादेशाभावेऽपिधानमपि / चन्दनः 2 मलयजतरुः / चन्दनान्तत्वाद्धरिचन्दनो देवदारुः चन्दनविशेषश्च / वितानं 2 विस्तारः उल्लोचःशून्यः यज्ञश्च / राजादनः 2 पियालः क्षीरिका च / शिश्नं 2 मेदः / यौवनं 2 द्वितीयं वयः / आपीनम् 2 ऊधः। उदपानं 2 कूपः। असनं 2 वृक्षविशेषः / श्लेषनिर्देशादासनमुपवेशनम् / केतनः 2 ध्वजः / अशनः 3 ओदनः // 19 //