________________ 1042 हैमपञ्चपाठी. [ हैमनटः 2 नर्तकविशेषः / निकटः 2 समीपम् / किरीटः 2 मुकुटम् / कर्बटः 2 पर्वतावृतग्रामविशेषः / कुक्कुटः 2 ताम्रचूडः / अट्टः क्षौमम् गेहभेदश्च / कुटो घटः हलाविशेषश्च / यकुटः वार्ताकीकुसुमम् / विटः खिङ्गः गोविशेषश्च / त्र्यङ्गटः शिक्यभेदः / कोट्टः दुर्गः / अथ ठान्तौ / कुष्ठं त्वग्दोषः गन्धद्रव्यविशेषश्च // 13 // कमठो वारुण्डखण्डषण्डा निगडाक्रीडनडप्रकाण्डकाण्डाः // कोदण्डतरण्डमण्डमुण्डा दण्डाण्डौ दृढवारबाणबाणाः // 14 // ( अव० ) कमठः 2 असुरविशेषः भाजनं च / कूर्मे तु देहिनामत्वात् पुंस्त्वमेव / बारुण्डः 2 दृक्कर्णमलः गणिस्थराजश्च / खण्डः 2 शकलमिक्षुविकारश्च / गुणवृत्तेस्त्वाश्रयलिङ्गता / खण्डः खण्डी खण्डमिति / षण्डः 2 वृक्षादिसमूहः / निगडः 2 पादबन्धनम् / आक्रीडः 2 उद्यानविशेषः / नडः 2 नड्वलजस्तृणविशेषः / प्रकाण्डः 2 स्तम्बः शस्तं तरोश्च मूलशाखान्तरम् / काण्डः 2 शरः समयश्च प्रकरणं समूहः जलं वालं कुत्सितं वृषस्कन्धः लता च / कोदण्डं 2 चापम् / तरण्डः 2 उडुपः। मण्डः 2 द्रवद्र्व्याणामुपरिस्थो भागः भक्तादिनिर्यासः एरण्डः मस्तु च / मुण्डम् 2 शिरः / दण्डः 2 यष्टिः मन्थाः सैन्यं दमनं च / अण्डः पक्ष्यादिप्रसवः / अथ ढान्तः / दृढः 2 स्थूलं बलवाँश्च / वारबाणं 2 चर्म / बाणः 2 शरः पुष्पविशेषश्च // 14 // कर्षापणः श्रवणपक्कणकङ्कणानि द्रोणापराह्नचरणानि तणं सुवर्णम् // स्वर्णव्रणो वृषणभूषणदूषणानि भाणस्तथा किणरणप्रवणानि चूर्णः // 15 // ( अव०) कर्षापणः 2 मानविशेषः पणषोडशकं च / प्रज्ञाद्यणि कार्षापणोऽपि / श्रवणः 2 कर्णः / पक्कणः शबरालयः। कङ्कणः 2 हस्तरक्षासूत्रम् / द्रोणः 2 परिमाणविशेषः। अपराह्नः 2 दिवसापरभागश्च / चरणं 2 गोत्रादि / तृणः 2 उपलादिः / सुवर्णः 2 स्वर्णः 2 हेमम् / व्रणः 2 ऊरुः / वृषणः 2 मुष्कः / भूषणः 2 अलंकारः / अर्थप्राधान्यात् मण्डनोऽपि / दूषणः 2 उपालंभः / भाणः 2 प्रबन्धभेदः / किणः 2 त्वग्ग्रन्थिः। रणः 2 संपरायः / प्रवणः 2 चतुष्पथम् / चूर्णः 2 क्षोदः // 15 // तोरणपूर्तनिकेतनिवाताः पारतमन्तयुतप्रयुतानि / / वेडितमक्षतदेवतत्तैरावतलोहितहस्तशतानि // 16 // ( अव० ) तोरणः 2 वन्दनमाला बहिरि निर्यहश्च / पूर्तः खातादि कर्म / निकेतः 2 आवासः / निवातः 2 गृहं दुर्भेदं चर्म च / वातरहिते प्रदेशे त्वाश्रयलिङ्गता / पारतं 2 रसेन्द्रः / अर्थप्राधान्यात् पारदमपि / अन्तः 2 प्रान्तः समीपं स्वरूपं च / उपलक्षणत्वात् प्रान्तः प्रान्तमपि। युतम् 2 अपानम् / प्रयुतं 2 दश लक्षाणि / वेडितः 2 सिंहनादविशेषः / अक्षताः अक्षतम् मङ्गलस्य