________________ लिङ्गानुशासनम् ] हैमपञ्चपाठी. घटकम् / न्यग्रोधफले फलनामत्वान्नपुंसकम् / वर्णशब्दः सितादौ स्वरादौ च वाच्ये पुनपुंसकः। वर्णः वर्ण सितकृष्णादि रूपं स्वराद्यक्षरं च। अन्यत्र तु णान्तत्वात्पुंस्येव / विलेपनेऽप्येके / रणे युद्धे वाच्ये संपरायः पुंनपुंसकः / संपरायः संयरायं रणम् // 3 // सैन्धवो लवणे भूतः प्रेते तमो विधुतुदे // स्वदायौ कस्वरे कृच्छं व्रते शुक्रोऽग्निमासयोः // 4 // लवणे वाच्ये सैन्धवः पुनपुंसकः / सैन्धवः सैन्धवं लवणम् / प्रेते वाच्ये भूतः पुनपुंसकः। भूतः भूतं प्रेतः। अन्यत्र तु पृथिव्यादौ प्राणिनिच क्लोबः बिधुतुदे राही वाच्ये तमः शब्दः पुनपुंसकलिङ्गः। अयं तमा इदं तमो राहुः / स्वदायशब्दौ कस्वरे धने वाच्ये पुनपुंसकौ / स्वः स्वं कस्वरम् / अन्यत्र स्वः आत्मा स्वभावो ज्ञातिश्च / प्रतिपदपाठात् पुंस्त्वमेव / दायः दायं धनम् / कृच्छ्रशब्दो व्रते वाच्ये पुनपुंसकः / कृच्छ्रः कृच्छ्रे सान्तपनादिवतम् / अग्नौ ज्येष्ठमासे च शुक्रः शब्दः पुनपुंसकः / शुक्रः शुक्रमग्निज्येष्ठमासश्च // 4 // कर्पूरस्वर्णयोश्चन्द्र उडादृशं छदे दलः // धर्मः खभावे रुचको भूषाभिन्मातुलिङ्गयोः // 5 // ( अव० ) कर्पूरे स्वर्णे च वाच्ये चन्द्रशब्दः पुनपुंसकः / चन्द्रः चन्द्र कर्पूरं स्वर्ण च / उडौ नक्षत्रे वाच्ये ऋक्षशब्दः पुनपुंसकः। ऋक्षः ऋक्षं भम्। छदे पणे वाच्ये दलशब्दः पुंनपुंसकः / दलः दलं छदः / स्वभावे स्वरूपे वाच्ये धर्मशब्दः पुनपुंसकः / धर्मः धर्म स्वभावः / अन्यत्र तु पुण्योपाये क्लीबत्वमुक्तम् / अन्यत्र तु पुंलिङ्ग एव। भूषाभिदि ग्रैवेयके मातुलिङ्गे च बीजपूरे वाच्ये रुचकः पुनपुंसकः / रचकः रुचकं त्रैवेयकं बीजपूरं च / सौवर्चले चन्दनपेषण्यां शिलायां च क्लीवः // 5 // पाताले वाडवो वधेः सीस आमलकः फले / / पिटजङ्गलसखानि पिटकामांसजन्तुषु // 6 / / ( अव० ) पाताले वाच्ये वाडवशब्दः पुनपुंसकः / वाडवः वाडवं पातालम् / वर्धः सीसे सीसके वाच्ये / फले वाच्ये आमलकः पुनपुंसकः। आमलकः आमलकं फलम् / पिटकाख्ये भाजनविशेषे मांसे जन्तौ च यथासंख्यं पिटजङ्गलसत्वाः पुनपुंसकाः / पिटः पिटम् पिटका / अन्यत्र छदौं आकर्षफले च प्रतिपदपाठान्नपुंसकत्वम् / जङ्गलः जङ्गलं मांसम् / जङ्गलो निर्जले देशे त्रिलिङ्गः पिशितेऽस्त्रियाम् / सत्वः सत्वं जन्तुः। जन्तुविशेषोऽपि जन्तुः। तेन पिशाचादावपि पुनपुंसकत्वम् / उपलक्षणत्वाद् गुणप्राणयोरपि / अन्यत्र तु क्लीबः // 6 // मधुपिडौ सुरातन्वोर्नाम शेवालमध्ययोः / / एकाद्रातः समाहारे तथा सूतककूलकौ // 7 //