SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ 1040 हैमपञ्चपाठी. [हैम(अव०) सुरायां मृबीकामद्ये तनौ च वाच्यायां मधुपिण्डशब्दौ पुनपुंसको। अयं मधुः इदं मधु सुरा। अयं पिण्डः इदं पिण्डं तनुः / शेवालमध्ययोनाम पुनपुंसकम् / शेवालः शेवालम् शेवलः शेवलमित्यादि / मध्यः मध्यं मध्यमः मध्यमम् अवलग्नः अवलग्नम् विलग्नः विलग्नमित्यादि / रात्र इति कृतसमासान्तो रात्रिशब्दो गृह्यते स एकशब्दात्परः पुंनपुंसकः। असमाहारार्थं वचनम् / एका चासौ रात्रिश्च एकरात्रः एकरात्रम् / समाहारे द्विगुसमाहारो द्वन्द्वसमाहारश्च गृह्यते तस्मिन् वर्तमानो यो रात्रशब्दः स पुनपुंसकः। द्वे रात्री समाहृते द्विरात्रः द्विरात्रम् / एवं त्रिरात्रः त्रिरात्रमित्यादि / द्वन्द्वसमाहारे अहश्च रात्रिश्च अहोरात्रम् / समाहार इति किम् / पूर्वो रात्रेरंशः पूर्वरात्रः / अथ कान्ताः // सूतकः सूतकं पारदः / कूलकः कूलकं स्तूपः // 7 // वैनीतकभ्रमरको मरकोवलीकवल्मीकवल्कपुलकाः फरकव्यलीकौ // किञ्जल्ककल्कमणिकस्तबका वितङ्कवर्चस्कचूचुकतडाकतटाकतङ्काः // 8 // (अव०) वैनीतकः वैनीतक परंपरावाद्यं याप्ययानादि / भ्रमरकः भ्रमरकं ललाटस्थोऽलकः। मरकः मरकं बहुप्राणिमरणम् / वलीकः वलीकं नीव्रम् / वल्मीकः वल्मीकं पिपीलिकादिकृतो मृत्संचयः / वल्कः वल्कं तरुत्वक् / पुलकः पुलकं रोमाञ्चः। फरकः फरक खेटकः। रलयोरैक्येन फलकमपि / व्यलीकः व्यलीकमप्रिय कार्य च / किञ्जल्कः किअल्कं केसरम् / कल्कः कल्कं कषायः तिलादेः खलश्च / मणिकः मणिकमलिञ्जरः। स्तबकः स्तबकं गुच्छः। वितङ्कः वितङ्कम् आरोग्यम् / वर्चस्कः वर्चस्कमवस्करः / चूचुकः चूचुकं कुचाग्रम् / तडाकः तडार्क सरः। तटाकः तटाकं तदेव / अर्थप्राधान्यात्तडागोऽपि / तङ्कः तङ्कम् आतङ्कः // 8 // बालकः फलकमालकालका मूलकस्तिलकपङ्कपातकाः // कोरकः करककन्दुकान्दुकानीकनिष्कचषका विशेषकः // 9 // ( अव०) बालकः परिहार्यमङ्गुलीयकं च / फलकः फलकं खेटकम् / तदन्तत्वात् शालिफलकोऽपि अष्टापदः / मालकः मालकं ग्रामान्तराटवी / अलकः अलकं चूर्णकुन्तलः / मूलकः मूलकं शाकविशेषः / तिलकः तिलकं पुण्ढः / पङ्कः पकं कर्दमः पापं च / पातकः पातकं पापम् / कोरकः कोरकं कुड्मलम् / अर्थप्राधान्यात् क्षारकोऽपि / करकः करकं कमण्डलुः करंकश्च / कन्दुकः कन्दुकं गिरिः / अन्दुकः अन्दुकं गजपादबन्धनम् / अनीकः अनीकं युद्धं सेना च / निष्कः निष्कं हेम्नः अष्टोत्तरं शतं पलं कर्षः हेम्नः उरोभूषणं दीनारश्च / चषकः चषकं मद्यपानभाजनम् / विशेषकः विशेषकं तिलकः // 9 // शाटककण्टकटङ्कविटङ्का मञ्चकमेचकनाकपिनाकाः // पुस्तकमस्तकमुस्तकशाका वर्णकमोदकमूषिकमुष्काः // 10 // ( अव० ) शाटकः शाटकं वस्त्र विशेषः। कण्टकः कण्टकं रोभाञ्चः वृक्षभेदी
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy