SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ 1038 हैमपञ्चपाठी. [ हैममियं काकुः ध्वनेर्विकारः / अयमियं 'किष्कुः हस्ते वितस्तौ च प्रकोष्ठे वा नपुंसकम् / अयमियं बाहुः हस्तः / अयमियं गवेधुः तृणधान्यविशेषः / अयमियं रा द्रव्यम् / अयमियं गौः / अयमियं भाः कान्तिः प्रभावश्च / अन्यत्र प्रभायामपि भाः शब्दः सन्तः पुंलिङ्ग एव चेत्याह // 12 // // अथ पुनपुंसकाधिकारः॥ पुंनपुंसकलिङ्गोऽब्जः शंखे पद्मोऽन्जसंख्ययोः // कंसोऽपुंसि कुशो बहिर्वालो हीवेरकेशयोः // 1 // ( अव०) शंखे वाध्येऽब्जशब्दः पुनपुंसकलिङ्गः। अब्जः अब्जं शंखः। यदुक्तम् 'अब्जो धन्वतरौ चन्द्रे शंखे स्त्रीक्लीबमम्बुजे'। अब्जे संख्याविशेषे च पद्मः पुनपुंसकम् / पद्मः पद्ममब्जं संख्याविशेषश्च / पद्मकादावपीत्यन्ये / अपुंसि नरादन्यत्राथै कंसशब्दः पुंनपुंसकः। कंसः कंसं मानविशेषः पानपात्रं कांस्यं च / कुशशब्दः पुंनपुंसको बर्हिर्दर्भश्चेद्वाच्यः / कुशः कुशं दर्भः। रामसुते तु देहि.. मनामत्वाद् योक्त्रद्वीपान्तरयोस्तु प्रतिपदपाठात् पुंसि // 1 // द्वापरः संशये च्छेदे पिप्पलो विष्टरस्तरौ // अब्दो वर्षे दरखासे कुकूलस्तुषपावके // 2 // (अव०) संशये संदेहे वाच्ये द्वापरशब्दः पुनपुंसकः / द्वापरः द्वापरं संशयः। अन्यत्र तु यथाप्राप्तम् / द्वापर युगविशेषः प्रतिपदपाठात् नपुंसकः / छिद्यतेऽनेनेति च्छेदो वस्त्रोपकरणम् / तस्मिन् वाच्ये पिप्पलः पुनपुंसकः / पिप्पलः पिपप्लं वस्त्रच्छेदोपकरणम् / तरोरन्यत्रार्थे विष्टरः पुंनपुंसकः / विष्टरः विष्टरम् आसनं बर्हिमुष्टिश्च / अब्दः अब्दं वर्षम् / दरो दरं भयम् / कन्दरे तु त्रिलिङ्गः / ईषदर्थे त्वव्ययम् देश्यपदं वा / यथा 'दरदलितहरिद्रापिञ्जराण्यङ्गकानि'। तुषपावके तुषाग्नौ वाच्ये कुकूलः पुनपुंसकः। कुकूलः कुकूलं तुषपावकः। अन्यत्र तु लान्तत्वान्नपुंसकम् / कुकूलं शंकुमान् गर्तः // 2 // परीवादपर्ययोर्जन्यतल्पौ तपोधर्मवत्सानि माघोष्णहृत्सु // वटस्तुल्यतागोलभक्ष्येषु वर्णः सितादिवरायो रणे संपरायः // 3 // ( अव०) जन्यशब्दः परीवादे कौलीने वाच्ये तल्पश्च पल्यङ्गे पुनपुंसकः / जन्यः जन्यं परीवादः। 'जन्यः स्याजनवादेऽपि ' इत्यमरः। तल्पं तल्पः पर्यः। तपःशब्दो माघमासे धर्मशब्द उष्णे शीतविरोधिनि वत्सः हृदि नपुंसकः / अयं तपा इदं तपः माघः / धर्मः घर्ममुष्णः / वत्सः वत्सं हृत् / वटशब्दस्तु. ल्यतायां गोलके भक्ष्यविशेषे च वाच्ये पुनपुंसकः / वटः वटं तुल्यता गोलकः भक्ष्यविशेषः / न्यग्रोधे रजौ च त्रिलिङ्गः / भक्ष्ये स्वार्थिके केऽपि वटक:
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy