________________ सिद्धहैमबृहत्यक्रिया. [स्त्रीप्रत्यय कीत्येव / जीवका-' आशिष्यकन् / / अनित इति पयुदासेन प्रत्ययग्रहणादिह न भवति-शनोतीति शका / आप्पर इत्येव / कारकः / आबेव परो यस्मादिति नियमः किम् / बहुपरिव्राजका मथुरा। विभक्त्यन्तादयमाबिति प्रतिषेधः। यत्तत्क्षिपकादिवर्जनं किम् / यका, सका, क्षिपका। बहुवचनमाकृतिगणार्थम् / 420 नरिका मामिका // 2 / 4 / 112 // नरकशब्दस्य मामक शब्दस्य चाप्रत्ययावयवे ककारे आप्परे परतोऽकारस्येत्वं निपात्यते / नरान् कायति नरिका / ' आतो डोऽहावामः' इति ड / ममेयं मामिका / अनि ममकादेशः / केवलमामके ' —त्यादिना संज्ञायां डीप्रत्ययस्य नियमादाप् / ककारस्याप्रत्ययसंबंधित्वात् पूर्वेणाप्राप्ते वचनम् / 421 तारका वर्णकाष्टका ज्योतिस्तान्तवपितृदेवत्ये // 2 / 4 / 113 / / तारकादयः शब्दा यथासंख्यं ज्योतिरादिष्वर्थेषु इकारादेशरहिता निपात्यन्ते / तरतेणके, तारका ज्योतिः–तच नक्षत्रं कनीनिका च / नक्षत्रमेवेत्यन्ये / अन्यत्र तारिका / वर्णयतीति णके वर्णका, तान्तवः प्रावरणविशेषः। अन्यत्र वर्णिका, भागुरी लोकायतस्य / अश्नोतेरोणादिके तककि अष्टका-पितृदेवत्यं कर्म / अन्यत्राष्टौ द्रोणाः परिमाणमस्या इति के अष्टिका खारी / पितृदेवतार्थ कर्मेति 'देवतान्तात्तदर्थे ' इति ये पितृदेवत्यमिति सिद्धम् / 423. ऊनः // 247 // उधन्निति कृतनकारादेशस्योधसो ग्रहणम् / तदन्तानानो स्त्रियां डीः स्यात् / कुण्डोधी / अनो वेति विकल्पे प्राप्त वचनम् / समासान्तविधौ नान्तत्वादेव ङीः सिद्धयति, किंतु पञ्चभिः कुण्डोनीभिः क्रीतः इतीकणि तल्लुपि च पञ्चकुण्डोन इति प्रकृतेः सौ पञ्चकुण्डोद् इति स्यात्, इष्यते च पञ्चकुण्डोधेति / 423 अशिशोः // 2 // 48 // अशिशु इत्येतस्माद् बहुव्रीहेः स्त्रियां डीः स्यात् / अविद्यमानः शिशुरस्या अशिश्वी / बहुव्रीहेरित्येव / न शिशुः अशिशुः / - 424 संख्यादेर्हायनाद्वयसि // 2 // 49 // संख्यादेर्हायनशब्दान्तानाम्नो बहुव्रीहेः स्त्रियां वयसि गम्यमाने डीःस्यात् / 425 अस्य यां लुक् // 2 // 4.86 // ङीप्रत्यये परे पूर्वस्याकारस्य लुक् स्यात् / द्विहायनी।